2023-02-23 21:26:57 by ambuda-bot
This page has not been fully proofread.
२
काव्यमाला ।
धातुः । किंभूतैः । ह्लादवद्भिः । 'हादी सुखे' धातुः । हादोऽत्र विगलितवेद्यान्तरपरमान-
न्दवाची । न तु सुखमात्रार्थः । पाठे धातोश्च शब्दाधिक्यात् । अत एव पदांशे श्रुतिक-
टूपि ह्लादपदं कविना ग्रन्थादिम श्लोके रक्षितम् । श्रीमन्मम्मटाचार्यैरपि काव्यप्रकाशे
ग्रन्थादौ भारतीनमस्कारे 'ह्लादेकमयीम्' इति पदांशे श्रुतिकटृपि ह्लादपदमनेनैवाभिप्रायेण
रक्षितम् । यतोऽग्रे दोषनिरूपणावसरे तैरेवोक्तम् – 'दोषोऽपि गुणः क्वचित्क्वचिन्नोभौ
इति । क्वचिदिति शमकथासु भक्तिविषयेऽपि । नोभौ न गुणो न दोषः । श्रुतिकटुपुनरु-
क्तादिरित्यर्थः । ह्लादः परमानन्दः कर्तुः सहृदयस्य च विद्यते । येष्वास्वादितेषु यैर्वा
ह्लादवन्तस्तैः । ह्लादो वर्णनीयो विद्यते येषु वा । स्तवैः पुनः किंभूतैः । अमलैः । अवि-
द्यमानो मलः पददोषः षोडशविधः श्रुतिकटुच्युतसंस्कृतादिः, अर्थदोषश्चापुष्टत्वादि-
द्वादशविधो येषाम् । तथा अनर्गलैः गङ्गातरङ्गवदविच्छिन्नप्रसरैः । तथा जीवयन्तीति
जीवना भवमरुभ्रमणतृषिताप्यायकाः तैः । तथा अघं पापं शिवेतरं च । वातव्याध्या-
द्यष्टविधमहारोगं वा कर्तुः सहृदयस्य च हरन्तीति तादृशाः तैः । तथाहि सूर्यशतकम
हाकाव्यकृतो मयूरस्य 'शीर्णघ्राणात्रिपाणीन्' इत्यादिषष्ठेन श्लोकेन श्रीभास्करप्रसादा-
न्महारोगो व्यपगत इति प्रसिद्धिः । तथा क्लमशमक्षमैः क्लमाः क्लेशाः पञ्च अविद्यादयः
क्लमः खेदो भवमरुभ्रमणजो वा । तस्य शमे शान्तौ क्षमाः तैः । यथा. सरस्वतीनाम्नी
नदी । 'सरस्वती नदीभेदे भूवाग्देवतयारपि' इति विश्वः । जीवनैस्तोयैः । 'जीवनं भु-
वनं वनम्' इत्यमरः । स्वामिनो मनो रोद्धुमतीति । तैरपि प्राग्वत् हादवद्भिः परमा-
नन्ददायिभिः । अमलैर्निर्मलैः । अघहरैस्त्रिविधपापहरैः। तथा क्लमो मरुभ्रमणादिजस्तस्य
शमे क्षमैः । अत्र इवाद्यनुपादानाच्छन्दशक्तिमूल उपमाध्वनिः । अग्रिम श्लोकेष्वपि
चतुर्षु । रथोद्धता छन्दः । 'रानरौ लघुगुरू रथोद्धता' इति कविशिक्षायाम् । 'रन-
रैरन्वितं युक्तं लघुना गुरुणा तथा । ख्यातं रथोद्धता नाम वृत्तमेकादशाक्षरम् ॥" इति
क्षेमेन्द्रकृते सुवृत्ततिलके ॥
स्वामिनः स्थिरगुणा सवक्रिमा कर्णयोरमृतवर्षिणी मनः ।
कर्तुमर्हति मुहूर्तमुज्झितस्वैरचापलमियं सरस्वती ॥ २ ॥
स्वामिन इति । इयं मम सरस्वती वाणी स्वामिनः श्रीशिवभट्टारकस्य मनः उज्झितं
स्वैरचापलं स्वेच्छातारल्यं येन तादृशं कर्तुमर्हति । कियन्तं कालम् । मुहूर्त दिनस्य पञ्च-
दशांशो रात्रेर्वा मुहूर्तस्तम् । 'दिनस्य यः पञ्चदशोऽपि भागो रात्रेर्भवेत्तत्तु मुहूर्तमा
नम्' इति संहिताविदः । 'मुहूर्त घटिकाद्वयम्' इति सामान्यलक्षणम् । मुहूर्तमिति
'कालभावाध्वदेशानाम्' इति द्वितीया । किंभूता मम वाणी । स्थिरगुणा । ओजःप्रसाद-
माधुर्याख्यास्त्रयः शब्दगुणा अर्थगुणाश्च यस्याम् । सह वक्रिम्णा विद्यते श्लिष्टशब्दा-
त्मकेन वैचित्र्येण सह वर्तते या सा सवक्रिमा । यथा 'रम्यरीतिरनघा गुणोज्ज्वला'
इत्यादौ रीतिगुणरसादेवचनप्रपञ्चस्य श्लेषार्थवशाद्वैचित्र्यम् । तथा सह वक्रिम्णा उपचा-
रवऋपदत्वेन वर्तते या । उपचारवऋभणितिरित्यर्थः । यथाप्रेऽत्रैव तृतीये स्तोत्रे –'खे-
Digitized by Google
-