This page has been fully proofread once and needs a second look.

१५४
 
काव्यमाला ।
 
किं तु स्वामिनि सावलेपहृदये दासीकृताः शत्रुभिः

क्षुद्रानद्यतनेश्वरान्नमदक्षीबान्निषेवामहे
 
॥ ७६ ॥
 

 
कस्य जन्तोर्मानोऽभिमानः पूज्यत्वं वा वल्लभो न भवति । अपि तु सर्वस्यैव । नि-

जार्तिवशेन यत्खलमुखप्रेक्षित्वं तेन दुःस्थाया कष्टा स्थितिः कस्य प्रोतिकरी भवति । तथा

याच्ञावशादिति शेषः । याचनावशात्रपाभरेण लजाभरेण नतं शिरः कस्मै रोचते । किं

तु पक्षान्तरे । स्वामिनि परमेश्वरे सावलेपहृदये सावज्ञमनसि सति शत्रुभी रिपुभिरौ-

चित्यादान्तरैः कामादिभिर्दासीकृता भुजिष्यीकृता वयं धनमदेन क्षीबानद्यतनेश्वरा-

न्वर्तमानसमयेश्वरान्क्षुद्रान्सामान्यान्कुनृपतीन्निषेवामहे ॥
 

 
स्तब्धा द्वारि यदास्महे क्षितिभुजां निर्भर्त्सिता वेत्रिभि-

र्यद्गर्वा ढ्यनरेन्द्रवल्लभदुरुद्गारैर्विदह्यामहे ।

यन्मिथ्यास्तुतिपातकैर्भगवतीं वाचं तिरस्कुर्महे
 

तत्सर्वं तव वक्रवक्रवलनामात्रस्य विस्फूर्जितम् ॥ ७७ ॥

 
क्षितिभुजां राज्ञां द्वारि वेत्रिभिः वेत्रं दण्डो विद्यते येषां ते वेत्रिणस्तैर्याष्टीकैनिंर्नि-

र्भर्त्
सिता न्यक्कृता यदास्महे । तथा गर्वेणाइंकारेण येऽन्धा नरेन्द्रवल्लभा राजपुरुषास्तेषां

दुष्टा ये उद्गारास्तैर्यच्च विदह्यामहे । तथा । कुनृपतीनामिति शेषः । कुनृपतीनां मि-
ध्

थ्
यास्तुतिपापैश्च यद्भगवतीं वाचं वाग्देवतां तिरस्कुर्महे हे विभो, तत्सर्वमेतत्तवैव वक्रं

कुटिलं यद्वक्रं तस्य वलनामात्रं परिवर्तनमात्रं तस्य विस्फूर्जितम् ॥

 
दृष्ट्वा पाटलगण्डलेखमरुणोद्वाबाष्पेक्षणं प्रस्फुर-
द्वि

द्बि
म्बोष्ठं प्रथमापराधकुपितं वक्त्रं कुरङ्गीदृशः ।

यत्सप्रेम सविस्मयं सविनयं सापत्रपं सस्पृहं
 

संत्रासं च मनोऽभवत्तदधुना श्रान्तं च शान्तं च नैःनः[^१] ॥ ७८ ॥

 
पाटले लोहिते गण्डलेखे यत्र तत्तादृशम् ।....तथा प्रस्फुरन्प्रकर्षेण स्फुर-

माणो बिम्बसदृश ओष्ठो यस्य तत् तथा प्रथमापराधेन कौमारहरत्वाख्येन कुपितं कु-

रङ्गीदृशो मृगाक्ष्या वक्रं मुखं दृष्ट्वा नोऽस्माकं मनः सप्रेम सस्नेहातिशयं सविस्मयं सा-
वर्य

श्चर्यं
सविनयं सहापत्रपया वर्तते यत्तादृक्सापत्रपं सस्पृहं सत्रासं चाभवद्बभूव तदेवाधुना

श्रीशिवभक्तिरससिक्तं श्रान्तं खिन्नं च शान्तं शमोपेतं च जातम् ॥

 
यत्खर्वीक्रियते सुखं विषयजं त्वद्भावनाजन्मना
 
हा

ह्ला
देन क्षणिकं स्थिरेण महता स्वल्पं किमत्राद्भुतम् ।
 

 
[^
]. 'मे' ख.
 
Digitized by Google