2023-02-23 21:27:24 by ambuda-bot
This page has not been fully proofread.
१५४
काव्यमाला ।
किं तु स्वामिनि सावलेपहृदये दासीकृताः शत्रुभिः
क्षुद्रानद्यतनेश्वरान्वनमदक्षीबान्निषेवामहे
॥ ७६ ॥
कस्य जन्तोर्मानोऽभिमानः पूज्यत्वं वा वल्लभो न भवति । अपि तु सर्वस्यैव । नि-
जातिवशेन यत्खलमुखप्रेक्षित्वं तेन दुःस्था कष्टा स्थितिः कस्य प्रोतिकरी भवति । तथा
याच्ञावशादिति शेषः । याचनावशात्रपाभरेण लजाभरण नतं शिरः कस्मै रोचते । किं
तु पक्षान्तरे । स्वामिनि परमेश्वरे सावलेपहृदये सावज्ञमनसि सति शत्रुभी रिपुभिरौ-
चित्यादान्तरैः कामादिभिर्दासीकृता भुजिष्यीकृता वयं धनमदेन क्षीबानद्यतनेश्वरा-
न्वर्तमानसमयेश्वरान्क्षुद्रान्सामान्यान्कुनृपतीन्निषेवामहे ॥
स्तब्धा द्वारि यदास्महे क्षितिभुजां निर्भसिता वेत्रिभि-
र्यद्गर्वा ढ्यनरेन्द्रवल्लभदुरुद्गारैर्विदयामहे ।
यन्मिथ्यास्तुतिपातकैर्भगवतीं वाचं तिरस्कुर्महे
तत्सर्वं तव वक्रवक्रवलनामात्रस्य विस्फूर्जितम् ॥ ७७ ॥
क्षितिभुजां राज्ञां द्वारि वेत्रिभिः वेत्रं दण्डो विद्यते येषां ते वेत्रिणस्तैर्याष्टीकैनिं-
सिता न्यकृता यदास्महे । तथा गर्वेणाइंकारेण येऽन्धा नरेन्द्रवल्लभा राजपुरुषास्तेषां
दुष्टा ये उद्गारास्तैर्यच्च विदयामहे । तथा । कुनृपतीनामिति शेषः । कुनृपतीनां मि-
ध्यास्तुतिपापैश्च यद्भगवतीं वाचं वाग्देवतां तिरस्कुर्महे हे विभो, तत्सर्वमेतत्तवैव वक्रं
कुटिलं यद्वक्रं तस्य वलनामात्रं परिवर्तनमात्रं तस्य विस्फूर्जितम् ॥
दृष्ट्वा पाटलगण्डलेखमरुणोद्वाष्पेक्षणं प्रस्फुर-
द्विम्बोष्ठं प्रथमापराधकुपितं वक्रं कुरङ्गीदृशः ।
यत्सप्रेम सविस्मयं सविनयं सापत्रपं सस्टहं
संत्रासं च मनोऽभवत्तदधुना श्रान्तं च शान्तं च नैः ॥ ७८ ॥
पाटले लोहिते गण्डलेखे यत्र तत्तादृशम् ।....तथा प्रस्फुरन्प्रकर्षेण स्फुर-
माणो बिम्बसदृश ओष्ठो यस्य तत् तथा प्रथमापराधेन कौमारहरत्वाख्येन कुपितं कु-
रङ्गीदृशो मृगाक्ष्या वक्रं मुखं दृष्ट्वा नोऽस्माकं मनः सप्रेम सस्नेहातिशयं सविस्मयं सा-
वर्य सविनयं सहापत्रपया वर्तते यत्तादृक्सापत्रपं सस्पृहं सत्रासं चाभवद्बभूव तदेवाधुना
श्रीशिवभक्तिरससिक्तं श्रान्तं खिन्नं च शान्तं शमोपेतं च जातम् ॥
यत्खर्वीक्रियते सुखं विषयजं त्वद्भावनाजन्मना
हादेन क्षणिकं स्थिरेण महता स्वल्पं किमत्राद्भुतम् ।
१. 'मे' ख.
Digitized by Google