This page has been fully proofread once and needs a second look.

१० स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
१९३
 
इन्दुशिरसश्चन्द्रमौलेः पदाब्जद्वन्द्वं स्वशिरसि दधतामत एवामन्दानन्दानाम्, तथा द-

लन्ती अलघुर्महती संतापोऽध्यात्मिकादिस्त्रिविधः सैव विपद्येषां ते तादृशां नोऽस्माकं

कालिन्दीसलिलशबलैर्यमुनाजलकर्बूरैरम्बरसरित्तरङ्गैर्गङ्गातरङ्गैः । गङ्गायमुनासंगमे प्रया-
..

ग इत्यर्थः …
...शान्ताग्न्यङ्गारत्वं याति ॥

 
सान्द्रानन्दस्तिमितकरणः पुण्यनैपुण्यभागी
 
ग इत्यर्थः ।
 
..........
 

भागीरथ्यास्तटविटपिनः क्वापि मूले निलीनः ।

सर्वाकारं गिरिपतिसुताकान्तमेकं प्रपन्नः
 

स्वात्मारामः शमसुखसुधास्वादमभ्येति धन्यः ॥ ७४ ॥

 
सर्वाकारं वाङ्मनःकायकर्मभिः सर्वप्रयत्नेनैकमेव गिरिसुताकान्तं श्रीशिवभट्टारकम-

नन्यगामिचित्ततया प्रपन्नः शरणं गतः । अत एव सान्द्रेण विगलितवेद्यान्तरेणानन्देन

स्तिमितानि सात्त्विकभावं गतानि करणानीन्द्रियाणि चक्षुरादीनि यस्य सः । तथा स्वा

त्मारामः स्त्रावात्मन्येवारमत इति । जितेन्द्रिय इत्यर्थः । तथा पुण्यं च नैपुण्यं च पु-

ण्यानां नैपुण्यं वा भजते तादृशः भागीरथ्या गङ्गायास्तटविटपिनस्तीरतरोः क्वापि कु-

त्रापि मूले निलीनो निषण्ण: सन् शमसुखसुधास्वादं शान्तिसुखामृतास्वादं धन्यो

भाग्यवानभ्येति ॥
 

 
अभिजनगुणख्यातिप्रज्ञाभिमानभरोद्धुरां
 

क इव सदसि प्रहीकर्तु ह्वीकर्तुं [^१]क्षमेत शिरोधराम् ।

विदधति मुहुर्हेलाखेलं भवत्यवधीरणं
 

भ्रमयितुममी युक्ता न स्युर्यदीन्द्रियवैरिणः ॥ ७९ ॥
 

 
भो: स्वामिन्, मुहुः पुनः पुनर्हेलया खेलं मन्थरं कृत्वा भवति त्वयि अवधीरणम

वज्ञां कुर्वति सति अमी इन्द्रियवैरिणो हृषीकशत्रवो भ्रमयितुम् । न्तुमिति शेषः ।

जन्तुं भ्रमयितुं मथितुं यदि न युक्ताः संनिहिताः सज्ञानास्तद्युक्ता वा यदि न स्युस्तदा

क इव पुमान्सदसि सभायामभिजनेन कुलेन गुणो दाक्षिण्यादिः ख्यातिः कीर्तिश्च प्रज्ञा

शैमुषी च अभिमानभरोऽहंकारातिशयश्च तैरुद्धुरां स्तब्धां शिरोधरां कृकाटिकां प्री-
कर्तु
रह्वी
कर्तुं
नम्रीकर्तुतुं क्षमेत क्षान्तितिं सहेत । कुलाद्युद्धरां शिरोधरां नम्रीकर्तुतुं क्षान्तिर्भवदवज्ञाफ-

लमित्यर्थः ॥
 

 
एतदेव पूर्वोक्तं पुनः समर्थयति-

मानः कस्य न वल्लभः खलमुखप्रेक्षित्वदुःस्था स्थितिः

कस्य प्रीतिकरी त्रपाभरनतं कस्मै शिरो रोचते ।
 

 
[^
]. 'सहेत' ख.
 
Digitized by Google