2023-02-23 21:27:24 by ambuda-bot
This page has not been fully proofread.
१० स्तोत्रम्]
स्तुतिकुसुमाञ्जलिः ।
१९३
इन्दुशिरसश्चन्द्रमौलेः पदाब्जद्वन्द्वं स्वशिरसि दधतामत एवामन्दानन्दानाम्, तथा द-
लन्ती अलघुर्महती संतापोऽध्यात्मिकादिस्त्रिविधः सैव विपद्येषां ते तादृशां नोऽस्माकं
कालिन्दीसलिलशबलैर्यमुनाजलकर्बूरैरम्बरसरित्तरङ्गैर्गङ्गातरङ्गैः । गङ्गायमुनासंगमे प्रया-
.....शान्ताग्न्यङ्गारत्वं याति ॥
सान्द्रानन्दस्तिमितकरणः पुण्यनैपुण्यभागी
ग इत्यर्थः ।
..........
भागीरथ्यास्तटविटपिनः क्वापि मूले निलीनः ।
सर्वाकारं गिरिपतिसुताकान्तमेकं प्रपन्नः
स्वात्मारामः शमसुखसुधास्वादमभ्येति धन्यः ॥ ७४ ॥
सर्वाकारं वाङ्मनःकायकर्मभिः सर्वप्रयत्नेनैकमेव गिरिसुताकान्तं श्रीशिवभट्टारकम-
नन्यगामिचित्ततया प्रपन्नः शरणं गतः । अत एव सान्द्रेण विगलितवेद्यान्तरेणानन्देन
स्तिमितानि सात्त्विकभावं गतानि करणानीन्द्रियाणि चक्षुरादीनि यस्य सः । तथा स्वा
त्मारामः स्त्रात्मन्येवारमत इति । जितेन्द्रिय इत्यर्थः । तथा पुण्यं च नैपुण्यं च पु-
ण्यानां नैपुण्यं वा भजते तादृशः भागीरथ्या गङ्गायास्तटविटपिनस्तीरतरोः क्वापि कु-
त्रापि मूले निलीनो निषण्ण: सन् शमसुखसुधास्वादं शान्तिसुखामृतास्वादं धन्यो
भाग्यवानभ्येति ॥
अभिजनगुणख्यातिप्रज्ञाभिमानभरोद्धुरां
क इव सदसि प्रहीकर्तु क्षमेत शिरोधराम् ।
विदधति मुहुर्हेलाखेलं भवत्यवधीरणं
भ्रमयितुममी युक्ता न स्युर्यदीन्द्रियवैरिणः ॥ ७९ ॥
भो: स्वामिन्, मुहुः पुनः पुनर्हेलया खेलं मन्थरं कृत्वा भवति त्वयि अवधीरणम
वज्ञां कुर्वति सति अमी इन्द्रियवैरिणो हृषीकशत्रवो भ्रमयितुम् । अन्तुमिति शेषः ।
जन्तुं भ्रमयितुं मथितुं यदि न युक्ताः संनिहिताः सज्ञानास्तयुक्ता वा यदि न स्युस्तदा
क इव पुमान्सदसि सभायामभिजनेन कुलेन गुणो दाक्षिण्यादिः ख्यातिः कीर्तिश्च प्रज्ञा
शैमुषी च अभिमानभरोऽहंकारातिशयश्च तैरुद्धुरां स्तब्धां शिरोधरां कृकाटिकां प्री-
कर्तु नम्रीकर्तु क्षमेत क्षान्ति सहेत । कुलायुद्धरां शिरोधरां नम्रीकर्तु क्षान्तिर्भवदवज्ञाफ-
लमित्यर्थः ॥
एतदेव पूर्वोक्तं पुनः समर्थयति-
मानः कस्य न वल्लभः खलमुखप्रेक्षित्वदुःस्था स्थितिः
कस्य प्रीतिकरी त्रपाभरनतं कस्मै शिरो रोचते ।
१. 'सहेत' ख.
Digitized by Google