This page has been fully proofread once and needs a second look.

१९२
 
काव्यमाला ।
 
भु
भ्रुकुंसत्वं बिभ्रत्प्रमदभर संदर्भरभसा -
 

द्भ
जेयं भूतेशनुभ्रुकुटिघटनाभाजनभुवम् ॥ ७९ ॥
 

(युग्मम्)
 

 
हे स्वामिन्, हन्त कष्टे । तरलश्चासौ नलिनीपल्लवस्तस्य तलं तत्र प्रलीनं यत्प्रालेय-

मवश्यायस्तद्वत्प्रचला क्षणस्थायिनी या कमला लक्ष्मीस्तया मूढं मोहान्धं मनो येषां ते

तादृशानां कदर्याणां कृपणानामप्ग्रे अदम्भ्रो घनो यो भ्रूभङ्गस्तत्प्रभवमवमानं हतधियः

कुधियः परमेश्वरभक्तिरसादन्यत्र लीनवुबुद्धयः इह जगत्यवमानं लभन्ते । किंभूताः । द्रवि-

णकणे या तृष्णा तयान्धिता दृग्येषां ते ॥ अहं त्विति । तु पक्षान्तरे । अहं पुनः प्रत्यग्रं

नवं यत्प्रभुचरणराजीवरजः श्रीशिवचरणाम्भोजरजस्तेन पवित्रम् अधिकश्चासौ भक्ते-

र्ग्र
हो हेवाकस्तेन गुरुं सगौरवं मूर्धानं दधदहं तेन भक्तिरसासवेन यः प्रमदभरः परमान-

न्दोत्कर्षस्तस्य संदर्भ आटोपस्तस्य रभसादौत्सुक्याहुद्भ्रुकुंसत्वं स्त्रीवेषधारिनटत्वं बिभ्रत्

भूतेशञ्जुभ्रुकुटिघटनाभाजन भुवं भूतेशस्य श्रीभैरवस्य भ्रूभङ्गरचनापात्रास्पदत्वं भजेयम् ।

'भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसनेश्चेति नर्तकः । स्त्रीवेषधारी पुरुषः' इत्यमरः । स्त्रीवेषधारी

नटो झुकंभ्रुकुंसः । अयं भावः - हतधियो मूढाः कंदर्पभ्रूभङ्गभाजनत्वं व्रजन्ति, अहं तु

धन्यः श्रीशिवभक्तिरसानन्देन स्त्रीवेषधारिनटत्वं बिभ्रदत एव श्रीभैरवञ्जुभ्रुकुटिरचनाभा-

जनत्वं भजेयम् ॥ युग्मम् ॥
 

 
अधुना श्रीशिवभक्तिरसामृतानन्देनात्मानं वृत्तद्वयेन कविर्विनोदयात-

सुरस्त्रोत स्वत्यास्तटविटपिपुष्पौघसुरभौ

गिरिग्रावग्रामस्खलन मुखरस्त्रोतसि जले ।

श्रमक्षामैरङ्गैरगणितभवल्लेशविपदां
 
-
 

कदा स्यान्नस्तृप्तिर्हरचरणसेवामुसुखरसैः ॥ ७२ ॥

 
तटविटपिपुष्पौघसुरभौ तीरतरुकुसुमसमूहसुगन्धे पर्वतशिलासमूहस्खलनसशब्द-

स्त्रोतसि सुरस्रोतस्वत्या देवनद्या गङ्गाया जले श्रमेण भवमरुभ्रमणजखेदेन क्षामैः कृशै-

रङ्गै
रुपलक्षितानां अत एवागणिता भवक्लेशविपत्संसारकष्टव्यापद्यैस्ते तादृशां नोऽस्माकं

हर चरणसेवासुखरसैः श्रीशिवपादारविन्दसेवामहासौख्यरसैस्तृप्तिः कदा स्यात् ॥
 

 
अमन्दानन्दानां दलदलबुसंतापविपदां
 

पदाम्भोजद्वन्द्रं शिरसि दतामिन्दुशिरसः ।

कदा नः कालिन्दीसलिलशबलैरम्बरसरि-

त्तरङ्गैरङ्गारीभवति भवबन्धेन्धनचयः ॥ ७३ ॥
 
Digitized by Google