This page has not been fully proofread.

१९२
 
काव्यमाला ।
 
भुकुंसत्वं बिभ्रत्प्रमदभर संदर्भरभसा -
 
अजेयं भूतेशनुकुटिघटनाभाजनभुवम् ॥ ७९ ॥
 
(युग्मम्)
 
हे स्वामिन्, हन्त कष्टे । तरलश्चासौ नलिनीपल्लवस्तस्य तलं तत्र प्रलीनं यत्प्रालेय-
मवश्यायस्तद्वत्प्रचला क्षणस्थायिनी या कमला लक्ष्मीस्तया मूढं मोहान्धं मनो येषां ते
तादृशानां कदर्याणां कृपणानामप्रे अदम्रो घनो यो अभङ्गस्तत्प्रभवमवमानं हतधियः
कुधियः परमेश्वरभक्तिरसादन्यत्र लीनवुद्धयः इह जगत्यवमानं लभन्ते । किंभूताः । द्रवि-
णकणे या तृष्णा तयान्धिता दृग्येषां ते ॥ अहं त्विति । तु पक्षान्तरे । अहं पुनः प्रत्यग्रं
नवं यत्प्रभुचरणराजीवरजः श्रीशिवचरणाम्भोजरजस्तेन पवित्रम् अधिकश्चासौ भक्ते-
हो हेवाकस्तेन गुरुं सगौरवं मूर्धानं दधदहं तेन भक्तिरसासवेन यः प्रमदभरः परमान-
न्दोत्कर्षस्तस्य संदर्भ आटोपस्तस्य रभसादौत्सुक्याहुकुंसत्वं स्त्रीवेषधारिनटत्वं बिभ्रत्
भूतेशञ्जुकुटिघटनाभाजन भुवं भूतेशस्य श्रीभैरवस्य भ्रूभङ्गरचनापात्रास्पदत्वं भजेयम् ।
'भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसनेति नर्तकः । स्त्रीवेषधारी पुरुषः' इत्यमरः । स्त्रीवेषधारी
नटो झुकंसः । अयं भावः - हतधियो मूढाः कंदर्पभ्रूभङ्गभाजनत्वं व्रजन्ति, अहं तु
धन्यः श्रीशिवभक्तिरसानन्देन स्त्रीवेषधारिनटत्वं बिभ्रदत एव श्रीभैरवञ्जुकुटिरचनाभा-
जनत्वं भजेयम् ॥ युग्मम् ॥
 
अधुना श्रीशिवभक्तिरसामृतानन्देनात्मानं वृत्तद्वयेन कविर्विनोदयात-
सुरस्त्रोत स्वत्यास्तटविटपिपुष्पौघसुरभौ
गिरिग्रावग्रामस्खलन मुखरस्त्रोतसि जले ।
श्रमक्षामैरङ्गैरगणितभवलेशविपदां
 
-
 
कदा स्यान्नस्तृप्तिर्हरचरणसेवामुखरसैः ॥ ७२ ॥
तटविटपिपुष्पौघसुरभौ तीरतरुकुसुमसमूहसुगन्धे पर्वतशिलासमूहस्खलनसशब्द-
स्त्रोतसि सुरस्रोतस्वत्या देवनद्या गङ्गाया जले श्रमेण भवमरुभ्रमणजखेदेन क्षामैः कृशै-
ररुपलक्षितानां अत एवागणिता भवक्लेशविपत्संसारकष्टव्यापद्यैस्ते तादृशां नोऽस्माकं
हर चरणसेवासुखरसैः श्रीशिवपादारविन्दसेवामहासौख्यरसैस्तृप्तिः कदा स्यात् ॥
 
अमन्दानन्दानां दलदलबुसंतापविपदां
 
पदाम्भोजइन्द्रं शिरसि दवतामिन्दुशिरसः ।
कदा नः कालिन्दीसलिलशबलैरम्बरसरि-
त्तरङ्गैरङ्गारीभवति भवबन्धेन्धनचयः ॥ ७३ ॥
 
Digitized by Google