This page has been fully proofread once and needs a second look.

१० स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
तदेवं दुर्वारव्यसनशतसंपातविषमं
 

विशन्ने स्वामिन्नहह सुमहन्मोहगहनम् ।
 
१५१
 

अविन्दन्नाश्वासक्षम मपरमापन्नसुहृदं
 

जनोऽवज्ञापात्रं भवति करुणाब्धेर्न भवतः ॥ ६९ ॥
 

(तिलकम्)
 

 
हे विभो, कुत्सिता ईशा: कदीशास्तेषां कदीशानां कुनृपतीनामग्रेऽस्माभिः क इव

न परिभवस्तिरस्क्रियारूपो विसोढः । किं कृत्वा । दीनं मुखं कृत्वा । एतदेवाह - चि

रमित्यादि । अस्माभिरवसरोद्वीक्षणधिया अवसरस्योद्वीक्षणं तत्र धीस्तया कदावसरं

प्राप्नुम इति धिया कदीशानां द्वारोपान्ते द्वारसविधे चिरं स्थितम् । तथास्माभिस्तत्रैव

कुपिता ये मुखरा द्वाःस्था याष्टीकास्तैर्विहितस्तिरस्कारः परिभवः सोढः । 'प्राप्तः' इति

च पाठः । कदीशानां किंभूतानाम् । विभवलवेन यो गर्वस्तेनान्धितान्धीकृता दृशो ये-

षाम् ॥ परिम्लान इति निजावस्थां वर्णयति कविः – हे विभो, मानः अहमप्येकोऽस्मी-

त्येवंरूपोऽभिमानः परिम्लानो म्लानिं गतः । ममेति शेषः । तथा तनुरपि देहयष्टिरपि

तनुः कृशापि ताम्यतितमामतिशयेन ताम्यति ग्लानिं भजते । 'तमु ग्लानौ' धातुः ।

मोहावर्तेऽज्ञानरूपाम्भोभ्रमे मनश्चित्तं भ्रमति । तथा मम वृधृतिधैर्यमप्यस्तं नाशं व्रजति

गच्छति च । तथा क्लेशानामविद्यादीनां पश्ञ्चानामपि कथा उच्छेदपदवीं नावतरति ।

अस्यां दवीयस्यामतिशयेन दूरायामनन्तायां भवभुवि भवः संसार एव भूस्तस्यां मम

मतिर्मुधा व्यर्थं धावति ॥ तदेवमिति । हे स्वामिन्, अहह खेदे । तत्तस्मात्कारणादेवम-

नेनोक्तप्रकारेण दुर्वाराणि यानि व्यसनशतानि तेषां संपातस्तेन विषमं कठिनं तथा सुनु
ष्ट्रु
महद्दीर्घमोहमेव गहनं दुर्गममिर्जलस्थानं विशन् अत एवाश्वासनसमर्थमपरं विभोरन्यं

नाथं बान्धवं वा तथापन्नसुहृदमापद्गतसुहृदमाश्वासनक्षममपरमलभमान एष मल्लक्षणो

जनः करुणाब्धेः कृपासमुद्रस्य भवतोऽवज्ञापात्रं न भवति । अवज्ञापात्रं भवितुं नाईती-

त्यर्थः ॥ तिलकम् ॥
 

 
कदर्याणामग्रे तरलनलिनीपल्लवतल-

प्रलीनमाप्रालेयप्रचलकमला मूढमनसाम् ।

अदभ्रूभ्रूभङ्गप्रे[^१]प्रभवमवमानं हतधियः
 
2
 

सहन्ते हन्तेह द्रविणकणतृष्णान्धितदृशः ॥ ७० ॥

 
अहं तु प्रत्यग्रप्रभुचरणराजीवरजसा
 

पवित्रं मूर्धानं दधदधिकभक्तिग्रहगुरुम् ।
 

 
[^
]. 'प्रसवमवसानं' ख.
 
Digitized by Google