This page has been fully proofread once and needs a second look.

१५०
 
काव्यमाला ।
 
दृशीं स्थिरां वपुषि देहार्धभागे भूधर राजसुतां पार्वतीमिव हृदये निजे वह धारय । पा-

र्वत्यपि तादृशी भवति ॥
 

 
चिन्तामणिः स्फटिकजातिरचेतनोऽपि
 

कल्पद्रुमः कठिनकाष्ठविनिर्मितोऽपि ।

तिर्यग्दशामपि गता किल कामधेनु-

र्भाग्यैरभीष्टफलदाः कृतिनां भवन्ति ॥ ६९ ॥
 

 
त्वं तु प्रभो त्रिभुवनैकमहेश्वरोऽपि

पर्याप्तशक्तिरपि पूर्णकृपार्णवोऽपि ।

आक्रन्दतोऽपि करुणं विधिवञ्चितस्य
 

त्यक्तादरोऽसि मम दर्शनमात्रकेऽपि ॥ ६६ ॥ (युग्मम्)
 

 
एते कृतिनां धन्यानां भाग्यैर्निजैरभीष्टफलदा भवन्ति । एते के इत्याह – चिन्ता

मणिः कल्पद्रुमः कामधेनुश्च । तत्र स्फटिकजातिरपलजातिश्चिन्तामणिश्चिन्तार-

त्
नम् । अचेतनो जडश्च । कल्पद्रुमश्च कठिनं यत्काष्ठं तेन निर्मितः । काष्ठमय इत्यर्थः ।

किल प्रसिद्धौ । कामधेनुः स्वर्धेनुश्चापि तिर्यग्दशां गता । तिर्यग्रूपेत्यर्थः । त्वं विति ।

हे प्रभो जगदीश, त्रिभुवने एकोऽद्वितीयो महेश्वरो महैश्वर्यवानपि पर्याप्ता परिपूर्णा श-

क्तिर्यस्य तादृशोऽपि पूर्णा या कृपा तस्या अर्णवः समुद्रोऽपि मम दर्शनमात्रकेऽपि दृ-
टवं

ष्ट्यं
शदानेऽपि त्यक्तादरोऽसि । ममैवाभाग्यचातुरीयमित्यर्थः ॥ युग्मम् ॥ एतद्वृत्तद्वयाश-

यानुसारेण ममाप्येकं वृत्तम् – 'निश्चेतनं तृणमणिस्तृणमाददाति लोहं च लोहमणिरा-

त्मवशं करोति । रे चित्त चेतनमपि त्वमभाग्यतो मे स्वाधीनमाचरसि नो स्वविभुं दया-

लुम् ॥' इति ॥
 

 
चिरं द्वारोपान्ते स्थितमवसरो[^१]द्वीक्षणधिया
 

तिरस्कारः सोढैःढः[^२] कुपितमुखरद्वाःस्थविहितः ।

मुखं दीनं [^३]कृत्वा विभवलवगर्वान्धितदृशां
 

कदीशानामग्रे क इव न विसोढः परिभवः ॥ ६७ ॥
पार

 
परि
म्लानो मानस्तनुरपि तनुस्ताम्यतितमां
 

मनो मोहावर्ते भ्रमति धृतिरस्तं व्रजति च ।

कथापि क्लेशानामवतरति नोच्छेदपदवीं
 

दवीयस्यामस्यां भवभुवि मुधा धावति मतिः ॥ ६८ ॥
 

 
[^
]. 'उदीक्षण' ख.
[^
]. 'प्राप्तः' ख.
[^
]. 'धृत्वा' ख.
 
Digitized by Google