This page has not been fully proofread.

१० स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
१४९
 
तथा भव एव महार्णवस्तत्र भनम् । तथानीश्वरमनाथम् । बहलो यो मोहोऽविद्यापर-
पर्यायमज्ञानं स एव महोपलो बृहदश्मा तेन पीडितं मां शरणागतं समुद्धर ॥
यममटैह्वियमाणमयन्त्रणैरशरणं शरणं चरणौ श्रितम् ।
घनघृणामृतनिर्भरया दृशा मदनमर्दन मामवलोकय ॥ ६० ॥
 
मदनं कामं मर्दयतीति मदनमर्दनः । तत्संबोधनं है मदनमर्दन शंभो, अयन्त्रणैरनि-
यन्त्रितैर्यमभटै रविजकिंकरैडियमाणम् तथा अशरणम् । तथा चरणी भवदीयचरणौ
शरणं श्रितम् मां घनं यद्धृणामृतं कृपामृतं तेन निर्भरया परिपूर्णया दृशावलोकय ॥
 
अमयघोषमिषोन्मिषितामृतद्रवमवन्ध्यवृतस्मितचन्द्रिकम् ।
 
वदनचन्द्रमसं तव पश्यतो मम कदा नु तमः शममेष्यति ॥ ६१ ॥
हे मदनमर्दन, मा भैषीरिति योऽभयशब्दस्तस्य मिषेण व्याजेमोन्मिषितोऽमृतद्रवो
यस्य स तादृशम् । तथा अवन्ध्या सफला भक्तजनाभीप्सितदानेन धृता स्मितचन्द्रिका
ईषद्धासज्योत्ना येन स तादृशं तव वदनचन्द्रमसं मुखेन्दुं पश्यतो मम तमो विषादात्म-
कतमोगुणस्वरूपमज्ञानाख्यमन्धकारं कदा नु शममेष्यति । नु वितर्फे ॥
 
प्रबलतापकदर्शित विग्रहं द्विजपति परिपालयितुं शिशुम् ।
 
वहसि किं न विभो हृदये दयां शिरसि निर्जरनिर्झरिणीमिव ॥ ६२ ॥
 
है विभो, प्रबला ये तापा आध्यात्मिकाधिदैविकाधिभौतिकात्रयस्त एव तापास्तैः
कदर्थितो व्यथितो विग्रहो यस्य स तादृशं शिशुं द्विजपतिं द्विजानां विप्राणां पतिं ब्रह्म-
न्द्रमर्थान्माम् द्विजपति नक्षत्रेशं च चन्द्रं शिशुं बालं पालयितुं रक्षितुं निर्जरनिर्झरिणीं
देवनदीं गङ्गामिव शिरसि हे विभो हृदये दयां किं न वहसि ॥
 
प्रणततापविपत्क्षपणक्षमां दलितसंततसंतमसस्थितिम् ।
 
हृदि निधेहि दयाममृतस्त्रुतं हरिणकेतुकलामिव मूर्धनि ॥ ६३ ॥
हे विभो, प्रणतानां प्रह्लाणां तापा आधिदैविकाद्यालय एव तापास्त एव विपत्तस्याः
क्षपणे दूरीकरणे क्षमां समर्थाम् तथा दलिता संततं संतमसस्याज्ञाननाम्नस्तमसः स्थि-
तिर्यया सा तादृशी ताममृतस्रुतं दयां हरिणकेतुकलामिव चन्द्रकलामिव शिरसि हृदि
हृदये निजे निधेहि । चन्द्रकलापि तादृशी भवति ॥
 
अभिमताधिकसिद्धिविधायिनीं भवदवच्छिदमव्यभिचारिणीम् ।
 
वह विभो हृदये दयितां दयां वपुषि भूधरराजसुतामिव ॥ ६४ ॥
हे विभो, अभिमतादभिलषितादप्यधिकं सिद्धिदात्रीं भवः संसार एव दवो दावा-
भिस्तं छिनत्तीति तादृशीं तथा अव्यभिचारिणीं न व्यभिचरति न मिवर्तत इति ता-
Digitized by Google