This page has been fully proofread once and needs a second look.

१४८
 
काव्यमाला ।
 
भवति । हे स्वामिन्, घनेन रागेण कोस्नेहेन भवद्विषये स्थितेन कदर्शितां व्यथितां मम
व्यथितां मम
बुद्धिधिं प्रति कर्कशं कठिनमाशयं किं वहसि । तदुपरि कृपां कुर्वित्यर्थः ॥
 
'
 

 
अथ गता परिणामदशामिति त्यजसि चेन्मम मुग्धतमां मतिम् ।

किमपरं घनमोहविमूर्छिता प्रथयतां तव निर्दयतामियम् ॥ ५६ ॥

 
अथानन्तरमियं मतिः परिणामदशां गता । प्रकृतिपरिणामो बुद्धिरिति सांख्याः ।

तथा परिणामदशां प्रौढत्वं च प्राप्तेयमिति हेतोर्मुग्धतमामतिरम्यामतिमूढां च मम मति

चेत्त्यजसि तर्हि किमपरं वच्मि । सा मम मतिर्घनमोहेनाज्ञानेन मूर्छिता व्यथिता अथ

च मोहेन कामोद्रेकेण च मूर्छिता सती तवैव निर्दयतां निष्कृपतां प्रथयतां प्रकटीकु·
-
रुताम् । यथा कामिनीत्यर्थः ॥ एतदाशयानुसारेण ममापि वृत्तमेकम् 'किं सुप्तो-

ऽसि किमाकुलोऽसि जगतः सृष्टस्य रक्षाविधौ किं वा निष्करुणोऽसि नूनमथवा क्षी :

स्वतन्त्रोऽसि किम् । किं वा मादृशनिःशरण्यकृपणाभाग्यैर्जडोऽवागसि स्वामिन्यन्न -

णोषि मे विलपितं यन्नोत्तरं यच्छसि ॥" इति ॥
 
-
 

 
इदमनङ्गजनंगम संगम [^१]भ्रमदमन्दमलं चपलं मनः ।
 

अमृतकुम्भकर द्युतरङ्गिणीधर सुधाकरशेखर शोधय ॥ १७ ॥
 

 
है अमृतकुम्भकर अमृतकलशपाणे, 'देवं सुधाकलश-' इत्यागमशास्त्रे श्रीमृत्युं

जयध्यानोक्तेः । तथा द्युतरङ्गिणीधर स्वर्नदीधर, तथा हे सुधाकरशेखर चन्द्रमौले, अ.

नङ्गः काम एव जनंगमञ्चण्डालस्तस्य संगमेन भ्रमत्प्रसृमरं अमन्दं प्रचुरं मलं कालुष्यं

यस्य तत्तादृशं चपलं मनः अर्थान्मम शोधय निर्मलीकुरु । एतच्छोने साभिप्रायममृ-

तकुम्भकरेत्यादिविशेषणत्रयम् ॥
 

 
भवमरुभ्रमखेदकदर्थितं सुविषमैस्तृषितं [^२]विषयोष्मभिः ।
 

मदयते हृदयं मम निर्भरं भव भवञ्च्चरणस्मरणामृतम् ॥ १८ ॥
 

 
हे भव श्रीशंभो, भवः संसार एव मरुर्निर्जलो देशस्तत्र भ्रमेण यः खेदस्तेन कद-
थिं

र्थि
तं व्यथितम् । तथा सुष्टु विषमैर्विषयोष्मभिः शब्दादीन्द्रियार्थोष्मभिस्तृषितं मम हृ-

दयं कर्मभूतं निर्भरं घनं भवच्चरणस्मरणामृतं कर्तृ मदयते आनन्दयति । भवच्चरणस्म-

रणामृतेन भवमरुभ्रमणखेदसंतप्तं मम हृदयं परमानन्दं लभत इत्यर्थः ॥
 

 
विषमपन्नगपाशवशीकृतं भवमहार्णवमग्नमनीश्वरम् ।

बहलमोहमहोपलपीडितं हर समुद्धर मां शरणागतम् ॥ १९ ॥

 
हे हर महेश, विषयाः शब्दादय एव पन्नगपाशा भुजगबन्धनानि तैर्वशोकृतम् ।

 
[^
]. 'प्रसृमरप्रचुरावरणं मनः' ख.
[^
]. 'विषयोर्मिभिः' ख.
 
Digitized by Google