This page has not been fully proofread.

१४८
 
काव्यमाला ।
 
भवति । हे स्वामिन्, घनेन रागेण कोहेन भवद्विषये स्थितेन कदर्शितां व्यथितां मम
बुद्धि प्रति कर्कशं कठिनमाशयं किं वहसि । तदुपरि कृपां कुवित्यर्थः ॥
 
'
 
अथ गता परिणामदशामिति त्यजसि चेन्मम मुग्धतमां मतिम् ।
किमपरं घनमोहविमूर्छिता प्रथयतां तव निर्दयतामियम् ॥ ५६ ॥
अथानन्तरमियं मतिः परिणामदशां गता । प्रकृतिपरिणामो बुद्धिरिति सांख्याः ।
तथा परिणामदशां प्रौढत्वं च प्राप्तेयमिति हेतोर्मुग्धतमामतिरम्यामतिमूढां च मम मति
चेत्त्यजसि तर्हि किमपरं वच्मि । सा मम मतिर्घनमोहेनाज्ञानेन मूर्छिता व्यथिता अथ
च मोहेन कामोद्रेकेण च मूर्छिता सती तवैव निर्दयतां निष्कृपतां प्रथयतां प्रकटीकु·
रुताम् । यथा कामिनीत्यर्थः ॥ एतदाशयानुसारेण ममापि वृत्तमेकम् – 'किं सुप्तो-
ऽसि किमाकुलोऽसि जगतः सृष्टस्य रक्षाविधौ किं वा निष्करुणोऽसि नूनमथवा क्षी :
स्वतन्त्रोऽसि किम् । किं वा मादृशनिःशरण्यकृपणाभाग्यैर्जडोऽवागसि स्वामिन्यन्न -
णोषि मे विलपितं यन्नोत्तरं यच्छसि ॥" इति ॥
 
-
 
इदमनङ्गजनंगम संगम भ्रमदमन्दमलं चपलं मनः ।
 
अमृतकुम्भकर द्युतरङ्गिणीधर सुधाकरशेखर शोधय ॥ १७ ॥
 
है अमृतकुम्भकर अमृतकलशपाणे, 'देवं सुधाकलश-' इत्यागमशास्त्रे श्रीमृत्युं
जयध्यानोक्तेः । तथा द्युतरङ्गिणीधर स्वर्नदीधर, तथा हे सुधाकरशेखर चन्द्रमौले, अ.
नङ्गः काम एव जनंगमञ्चण्डालस्तस्य संगमेन भ्रमत्प्रसृमरं अमन्दं प्रचुरं मलं कालुष्यं
यस्य तत्तादृशं चपलं मनः अर्थान्मम शोधय निर्मलीकुरु । एतच्छोषने साभिप्रायमन-
तकुम्भकरेत्यादिविशेषणत्रयम् ॥
 
भवमरुभ्रमखेदकदर्थितं सुविषमैस्तृषितं विषयोष्मभिः ।
 
मदयते हृदयं मम निर्भरं भव भवञ्चरणस्मरणामृतम् ॥ १८ ॥
 
हे भव श्रीशंभो, भवः संसार एव मरुर्निर्जलो देशस्तत्र भ्रमेण यः खेदस्तेन कद-
थिंतं व्यथितम् । तथा सुष्टु विषमैर्विषयोष्मभिः शब्दादीन्द्रियार्थोष्मभिस्तृषितं मम ह-
दयं कर्मभूतं निर्भरं घनं भवच्चरणस्मरणामृतं कर्तृ मदयते आनन्दयति । भववरणस्म-
रणामृतेन भवमरुभ्रमणखेदसंतप्तं मम हृदयं परमानन्दं लभत इत्यर्थः ॥
 
विषमपन्नगपाशवशीकृतं भवमहार्णवमनमनीश्वरम् ।
बहलमोहमहोपलपीडितं हर समुद्धर मां शरणागतम् ॥ १९ ॥
हे हर महेश, विषयाः शब्दादय एव पन्नगपाशा भुजगबन्धनानि तैर्वशोकृतम् ।
१. 'प्रसमरप्रचुरावरणं मनः' ख. २. 'विषयोर्मिभिः' ख.
 
Digitized by Google