This page has been fully proofread once and needs a second look.

१० स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
पृथुशिरस्त्रिदशापगया श्रितं करुणया हृदयं शिवया वपुः ।

कथमतिप्रमिते भगवन्धृतिः श्रवणरन्ध्रपदेऽपि न मे गिरः ॥ ११ ॥
 
१४७
 

 
हे भगवन् शंभो, तव पृथु विस्तीर्णं शिरस्त्रिदशापगया देवनद्या गङ्गया श्रितम् ।

तथा पृथु उदारं हृदयं करुणया कृपया जगदुद्धारकारिण्या श्रितम् । तथा पृथु वि

स्तीर्णेणं वपुः शिवया गिरिजया श्रितम् । हे शंभो तवातिप्रमितेऽत्यन्तसूक्ष्मेऽपि श्रव-

णरन्ध्रपदे कर्णरन्ध्रस्थाने मे मम गिरो वाण्याः ........। मदीयां वाचं किं न शृ

णोषीत्यर्थः । 'धृतिर्धारणधैर्ययोः' ॥
 
9
 

 
त्वदनुरागभरेण कदर्शिथिता त्वदनुरञ्जनकर्मणि चाक्षमा ।
 

इति मतिर्मम चाटुपराङ्मुखी हर करोति निजार्तिनिवेदनम् ॥ १२ ॥
 

 
है हर, त्वयि विषयेऽनुरागभरेण कदर्थिता व्यथिता तथा त्वदनुरञ्जनकार्ये चाक्षमा

असमर्था इत्यतो हेतोश्चाटुभ्यः परापुङ्मुखी सती निजा चासावार्तिस्तस्या निवेदनं करोति ।

यथैवंविधा कामिनी निजातिर्तिं स्वामिनो निवेदयति तथेत्यर्थः ॥
 

 
प्रियतमोऽसि मतेर्मम सा पुनर्न गुणवत्यपि ते हृदयंगमा ।
 

इति महेश भवद्विरहातुरा भजति कामपि कामकदर्थनाम् ॥ ५३ ॥
 

 
हे महेश, मम मतेर्बुद्धेः प्रियतमोऽस्ति अत्यन्तप्रियोऽसि प्राणप्रियोऽसि । सा पुनर्मम

मतिर्गुणवत्यपि ते तव हृदयंगमा न भवति । गुणवती, गुणाः सत्त्वरजस्तमांसि तद्वती,

दयादाक्षिण्यादिगुणयुक्ता च । इत्यतो भवद्विरहेणातुरा सती कामप्यनिर्वाच्यां कामक-
दर्शनां कामो मनोरथस्तेन क

दर्थनां कामो मनोरथस्तेन कदर्थनां व्यथां भजति । कामिनीपक्षे – कामेनानङ्गेन व्यथां

प्राप्नोति । या च कामिनी गुणवत्यपि कामुकस्याप्रिया सा कामप्यनङ्गव्यथां प्राप्नोती-

त्यर्थः ॥
 

 
भव भवत्परिरम्भरसोऽस्तु मा त्वदुपभोगविधौ तु कथैव का ।
 

तव तु दर्शनमात्रककाङ्क्षिणीं मम मतिं कथमित्थमुपेक्षसे ॥ १४ ॥
 
·
 

 
हे भव, तस्या मम मतेः भवत्परिरम्भस्य भवदालिङ्गनस्य रसो मास्तु । सा कथं

भवत्परिरम्भं लभत इत्यर्थः । तु पक्षान्तरे । त्वदुपभोगविधौ त्वया विहितो य उपभोग

आस्वादस्तस्य कथैव का भवति । हे स्वामिन् । तु पक्षान्तरे । तव दर्शनमात्रकका-

ङ्क्षिणीं मम मतिमित्थमनेन प्रकारेण कथमुपेक्षसे ॥
 
-
 

 
कुटिलतां न जगाम निकामतो न सहजं मलिनत्वमुपेयुषी ।
 

वहसि कि घनरागकदर्शिथितां मम मतितिं प्रति कर्कशमाशयम् ॥ १५ ॥
 

 
हे हर, मम मतिरेव कामिनी कुटिलतां कर्मशाज्ट्यं कुटिलाशयत्वं च निकामतः

स्वभावतो न जगाम । तथा न च मम मतिर्मलिनत्वं सदोषत्वं मालिन्यं चोपेग्रुषो न
 
Digitized by Google
 
युषी न