This page has not been fully proofread.

१० स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
थुशिरस्त्रिदशापगया श्रितं करुणया हृदयं शिवया वपुः ।
कथमतिप्रमिते भगवन्धृतिः श्रवणरन्ध्रपदेऽपि न मे गिरः ॥ ११ ॥
 
१४७
 
हे भगवन् शंभो, तव पृथु विस्तीर्ण शिरस्त्रिदशापगया देवनद्या गङ्गया श्रितम् ।
तथा पृथु उदार हृदयं करुणया कृपया जगदुद्धारकारिण्या श्रितम् । तथा पृथु वि
स्तीर्णे वपुः शिवया गिरिजया श्रितम् । हे शंभो तवातिप्रमितेऽत्यन्तसूक्ष्मेऽपि श्रव-
णरन्ध्रपदे कर्णरन्ध्रस्थाने मे मम गिरो वाण्याः ........। मदीयां वाचं किं न शृ
णोषीत्यर्थः । 'धृतिर्धारणधैर्ययोः' ॥
 
9
 
त्वदनुरागभरेण कदर्शिता त्वदनुरञ्जनकर्मणि चाक्षमा ।
 
इति मतिर्मम चाटुपरामुखी हर करोति निजार्तिनिवेदनम् ॥ १२ ॥
 
है हर, त्वयि विषयेऽनुरागभरेण कदर्थिता व्यथिता तथा त्वदनुरञ्जनकार्ये चाक्षमा
असमर्था इत्यतो हेतोश्चाटुभ्यः परापुखी सती निजा चासावार्तिस्तस्या निवेदनं करोति ।
यथैवंविधा कामिनी निजाति स्वामिनो निवेदयति तथेत्यर्थः ॥
 
प्रियतमोऽसि मतेर्मम सा पुनर्न गुणवत्यपि ते हृदयंगमा ।
 
इति महेश भवद्विरहातुरा भजति कामपि कामकदर्थनाम् ॥ ५३ ॥
 
हे महेश, मम मतेर्बुद्धेः प्रियतमोऽस्ति अत्यन्तप्रियोऽसि प्राणप्रियोऽसि । सा पुनर्मम
मतिर्गुणवत्यपि ते तव हृदयंगमा न भवति । गुणवती, गुणाः सत्त्वरजस्तमांसि तद्वती,
दयादाक्षिण्यादिगुणयुक्ता च । इत्यतो भवद्विरहेणातुरा सती कामप्यनिर्वाच्यां कामक-
दर्शनां कामो मनोरथस्तेन कदर्थनां व्यथां भजति । कामिनीपक्ष – कामेनानङ्गेन व्यथां
प्राप्नोति । या च कामिनी गुणवत्यपि कामुकस्याप्रिया सा कामप्यनङ्गव्यथां प्राप्नोती-
त्यर्थः ॥
 
भव भवत्परिरम्भरसोऽस्तु मा त्वदुपभोगविधौ तु कथैव का ।
 
तव तु दर्शनमात्रककाङ्क्षिणीं मम मतिं कथमित्थमुपेक्षसे ॥ १४ ॥
 
·
 
हे भव, तस्या मम मतेः भवत्परिरम्भस्य भवदालिङ्गनस्य रसो मास्तु । सा कथं
भवत्परिरम्भं लभत इत्यर्थः । तु पक्षान्तरे । त्वदुपभोगविधौ त्वया विहितो य उपभोग
आस्वादस्तस्य कथैव का भवति । हे स्वामिन् । तु पक्षान्तरे । तव दर्शनमात्रकका-
ङ्क्षिणीं मम मतिमित्थमनेन प्रकारेण कथमुपेक्षसे ॥
 
-
 
कुटिलतां न जगाम निकामतो न सहजं मलिनत्वमुपेयुषी ।
 
वहसि कि घनरागकदर्शितां मम मति प्रति कर्कशमाशयम् ॥ १५ ॥
 
हे हर, मम मतिरेव कामिनी कुटिलतां कर्मशाज्यं कुटिलाशयत्वं च निकामतः
स्वभावतो न जगाम । तथा न च मम मतिर्मलिनत्वं सदोषत्वं मालिन्यं चोपेग्रुषो न
 
Digitized by Google