2023-02-23 21:27:23 by ambuda-bot
This page has not been fully proofread.
१४६
काव्यमाला ।
हे चित्त, त्वं यद्यात्मनः सौहृदं चिकोर्षसि कर्तुमिच्छसि तथा त्वं यद्यधैः पातकैर्ब-
न्धनं कारागृहरूपं परिजिहीर्षसि परिहर्तुमिच्छसि, तथा संसृतिसागरं भवार्णवं यदि ति-
तीर्षसि तर्तुमिच्छसि तदा मयस्करं मयः कल्याणं परमानन्दरूपं करोतीति मयस्कर-
मीश्वरसेवनं परमशिवसेवनं श्रय । छन्दसि मयः शब्दः कल्याणवाचको दृश्यते । यथा
रुद्रानुवाके – 'शंकराय च मयस्कराय च' इति । अत्र भाषायामप्रयुक्तोऽपि मयस्कर-
शब्दो भक्तिविषयेऽदुष्टः । यद्वा 'छन्दोवत्कवयोऽपि प्रयुञ्जते' इति न्यायेन समाधेयम् ॥
यदि वराक सुकर्मविपाकतः करतले पतितस्तव शेवधिः ।
तमखिलापदपाकरणक्षमं नयसि मूढ निरर्थकतां कथम् ॥ ४७ ॥
हे वराक चित्त, सुकर्मविपाकतः । शोभनं च तत्कर्म सुकर्म । प्राचीनानेकजन्मपु-
ण्यपरम्पराविपाकतस्तव करतले शेवधिनिधिः पतितः अखिला या आपदो जन्मज-
रामरणरूपव्यापदस्तासामपाकरणे दूरीकरणे क्षमं तं शेवधिं श्रीशिवोपासनपरतन्त्रं मा
नुषजन्मरूपं हे मूढ, निरर्थकतां व्यर्थतां कथं नयसि ॥
एतदग्रिम श्लोके प्रकटयति-
-
अमलशीलकुलश्रुतविश्रुतं सदसदर्थविचारविशारदम् ।
पुरजिदर्चनसौख्यपराङ्मुखं नयसि मानस मानुषजन्म यत् ॥ ४८ ॥
(दशभिश्चित्तोपदेशकुलकम् )
हे मानस, अमलं स्वच्छं निर्मलं शीलं च कुलं च श्रुतं च तैर्विश्रुतं ख्यातं तथा
सदसदर्थविचारे कार्याकार्यविवेके विशारदं निपुणं मानुषजन्म यत्पुरजिदर्चनसौख्यपरा-
युखं सत् नयस्यतिवाहयसि ॥ दशभिश्चित्तोपदेशकुलकम् ॥
भ्रमदमन्थर मन्थर या हतिध्वनदमुद्र समुद्र समानया ।
शमितशापदशापदमेहि मे हर गिरा वितरावितथं वरम् ॥ ४९ ॥
हे हर महेश स्वामिन्, त्वमेहि भ्रमंश्चासावमन्थरश्चासौ मन्थो मन्दराख्यः शैलो वैशा-
खस्तस्य यो रयो वेगस्तेना हतिस्तया ध्वनंश्वासावमुद्रो निर्मर्यादः समुद्रस्तस्य समा-
नया गिरा वाण्या शमितशापदशापदं शमिता शापदशा पुनः पुनर्जन्ममरणमहाक्लेशरू-
पशापावस्था एव आपद्येन स तादृशमवितथं सत्यं वरं मे मह्यं वितर देहि कृपां कुरु ॥
अनुगृहाण गृहाण घृणार्णव प्रणयिनः प्रणयानुगुणं वचः ।
उपकुरुष्व कुरुष्व दृढं मनागशरणोद्धरणप्रवणं मनः ॥ ५० ॥
।
हे घृणार्णव करुणासमुद्र शंभो, अनुगृहाणानुग्रहं कुरु । प्रणयिनो याचकस्य । अर्था-
न्मम प्रणयानुगुणं याच्ञानुरूपं वचो गृहाण । त्वमुपकुरुष्व उपकारं भवार्णवोत्तरणरूपं
कुरु । त्वं मनागीषत् अशरणोद्धरणप्रवणं विगतशरणमादृशजनोद्धरणलीनं मनश्चित्तं
दृढं कुरु ॥
Digitized by Google