This page has been fully proofread once and needs a second look.

१० स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
समदने मदनेन वशीकृता वरवधूरवधूय भज प्रभुम् ।

अशरणोद्धरणोद्धतधीः शुषाचामुपरमं परमं स करोति ते
 
१४५
 
॥४२॥ (युग्मम् )
 
[^१]
 
पवनेन वायुना ईरिता या माव्यो माधवीलतास्ताभिर्धवलिते। तथा तरुपलिङ्क्तिभि-

र्वलिते । तथा अमलाः कोमला ये कोषा बीजकोषास्तत्र निषण्णानां षट्चरणानां भ्रम-

राणां पारणं किंजल्कस्य तेन पावनानि पङ्कजानि यत्र तादृशे । समदने मदनवृक्षसहिते

उपवने मदनेन वशीकृताः सकामोद्रेका वरवधूर्वराङ्गीरवधूय त्यक्त्ता प्रभुं श्रीशिवभहाट्टारकं

भज सेवस्व । कुत इत्याह –स एव प्रभुरशरणानां जनानामुद्धरणे उद्धता धीर्बुद्धिर्यस्य

स ते तव परममुत्कृष्टं शुचां जन्मजरामरणदुःखानामुपरमं नाशं करोति ॥ युग्मम् ॥

पुनरपि मानसमेवोपदिशति-

 
जहिहि मोहमुपेहि निजां स्थितिं त्यज शुचं भज मानपरिग्रहम् ।

अहरहर्हरपादसरोरुहस्मृतिरसायनपानपरं भव ॥ ४३ ॥
 

 
हे मानस, मोहमविद्यापर्यायमज्ञानं जहिहि । त्वं निजां स्थितिं मर्यादामुपेहि । शुचं

शोकं त्यज । मानपरिग्रहं भज । श्रीशिवपदाम्भोजस्य स्मृतिरेव रसायनपानममृतपानं

तत्र परं लीनं भव ॥
 

 
तदसमञ्जसमङ्ग यदङ्गनानयनचापलशापमुपेयताम् ।
 

नयसि नित्यबहिर्मुख शंकरस्मरणसौमनसीमपि हेयताम् ॥ ४४ ॥
 

 
हे नित्यबहिर्मुख, नित्यं बहिर्बाह्यव्यापारेषु पर्यवसानविरसेष्वेव मुखं यस्य तत् तादृशं,

हे चित्त, अङ्ग इष्टमन्त्रणे । त्वमङ्गनानयनचापलं वरकामिनीनेत्रचापलमेव शापः निर-

यप्राप्तिरूपातिदुःखदः तमुपेयतां प्राप्यतां नयसि । तदेव साधु मन्यस इत्यर्थः । तथा

शंकरस्मरणसौमनस श्रीशिवस्मरणपरमसुखविश्रान्तिमपि हेयतां त्याज्यतां नयसि यत्स-

र्वथा त्यजसि तदेतदसमञ्जसम् । अयुक्तमित्यर्थः ॥
 

 
यदि समर्थयसे दुरतिक्रमं कुपितकालटभ्रुकुटीभयम् ।

तदचिकित्स्यभवामयभेषजं भज भुजंगमभूषणतोषणम् ॥ ४५ ॥
 

 
हे चित्त, त्वं कुपिता ये कालभटा यमभटास्तेषां भ्रुकुटी असौम्याक्षिविकारस्तस्या

भयं दुरतिक्रममलङ्घ्यं यदि समर्थयसे मन्यसे तत्तस्मात्कारणादचिकित्स्यस्यासाध्यस्य

भवरोगस्य भेषजमगदं भुजंगमभूषणतोषणं फणिहारश्रीशिवभट्टारकसंतोषणं भज ॥

 
यदि चिकीर्षसि सौहृदमात्मनः परिजिहीर्षसि यद्यघबन्धनम् ।

यदि तितीर्षसि संसृतिसागरं श्रय मै[^२]मयस्करमीश्वरसेवनम् ॥ ४६ ॥

 
[^
]. 'युग्मम्' ख- पुस्तके नास्ति.
[^
]. 'यशस्करं' ख.
 
Digitized by Google