This page has not been fully proofread.

काव्यमाला ।
 
काश्मीरकमहाकविश्रीजगद्ध रभट्टमणीतः
स्तुतिकुसुमाञ्जलिः ।
 
राजानकरत्नकण्ठविरचितया लघुपश्चिकाख्यया टीकया समेतः ।
 
प्रथमं स्तोत्रम् ।
 
श्रेयः शिवाद्वयजुषो दिशतात्स एको वक्षोजहेमकलशो गिरिराजपुत्र्याः ।
षड़हस्तिवदनावमृतं यदीयं पातुं मिथः कलहमातनुतो नितान्तम् ॥
रक्षतु कलहेरम्बस्त्रिजगद्वन्द्यः स हेरम्बः ।
बहुविधशृङ्गारचितं यद्वदनं शंभुना रचितम् ॥
सेवकजन सिद्धरमां तां देवीं नमत सिद्धरमाम् ।
या वन्द्या विबुधगणैः स्तुत्या या भूतले च विबुधगणैः ॥
द्विनभोष्टिमिते (१६०२) शाके धौम्यायनकुलोद्भवः ।
काश्मीरदेशवास्तव्यो रत्नकण्ठाभिधः सुधीः ॥
महेशचरणाम्भोजभावनारसभाविते ।
 
जगद्धरकवेः काव्ये करोति लघुपत्रिकाम् ॥ (युग्मम्)
 
तत्र तावदनेकपूर्वजन्मार्जितसुकृतपरिपाकोपलब्धातिगाढभक्तिरसामृतामोदसुगन्ध्य-
भिनवस्तवप्रसूनाञ्जलि[वि]तरणोद्योगे त्रिजगत्प्रभोः कृतकृत्यमात्मानमाकलयन्नतिप्रौ-
ढसूक्तिनैपुण्येन च निजौद्धत्यं प्रकटयन्ह्लादवद्भिरित्यादिना वृत्तपञ्चकेनास्य वक्ष्यमाण-
संदर्भस्य पीठिकां कर्तु कविराह-
-
 
ह्लादवद्भिरमलैरनर्गलैर्जीवनैरघहरैर्नवैरियम् ।
 
स्वामिनः लमशमक्षमैः क्षणं रोहुमर्हति मनः सरस्वती ॥ १ ॥
 
ह्लादवद्भिरिति । इयं सरस्वती । 'गीर्वाग्वाणी सरस्वती' इत्यमरः । 'सरोऽस्या आ
श्रयत्वेनास्ति । मतुपि सरस्वती । इयं च ब्रह्मलोके ब्रह्मसरः समाश्रित्य शापानदी
भूत्वा भूलोकमवतीर्णा । अत्र च शक्तिशक्तिमतोरभेदाद्वाणीरूपं वचनमपि सरस्वती-
शब्दवाच्यम्' इति रायमुकुट्याम् । इयं सरस्वती वाणी । ममेति शेषः । स्वामिनः ।
'स्वामिनैश्वर्ये' इत्यैश्वर्यवाचिन: स्वशब्दान्मत्वर्थे आमिनच् । स्वामी महैश्वर्यवान् श्री-
शिवभट्टारकः । तस्य मनः क्षणं रोजमर्हतीति संबन्धः । कैः । नवैः स्तवैः । 'णु स्तुतौ
 
Digitized by Google