This page has been fully proofread once and needs a second look.

१४४
 
काव्यमाला ।
 
मदमन्मथमत्सरा गर्वकामक्रोधा यस्य सः । एकमना एकाग्रचित्तो मनाक् सन्नहं शश-

धराभरणं चन्द्रमौलिं श्रये ॥
 

आत्मानं विनोदयति कविः-

 
इदमहं करुणामृत सागरं शशिकिशोरशिरोमणिमर्थये ।
 

व्रजतु जन्मनि जन्मनि मे वपुर्भवदुपासनसाधनतामिति ॥ ३७ ॥
 

 
करुणामृतसागरं कृपामृताम्भोधिं शशिकिशोरशिरोमणिणिं बालेन्दुवतंसमिदमेवार्थये ।

एवशब्द आर्थ: । इति किमित्याह - जन्मनि जन्मनि भवे भवे मे वपुः कलेवरं भवदु-

पासनसाधनतां भवदाराधनहेतुतां गच्छत्विति ॥
 

 
कमपि नाम निकाममनोहरं वहति टङ्कमनङ्कुशमेव यत् ।
 

तदकलङ्कमलंकरणं मुखे भवतु मे शिवनाम निरामयम् ॥ ३८ ॥
 

 
नाम निश्चये । यच्छिवनाम शिवशिवेति नाम निरङ्कुशं निर्यन्त्रणं कमपि ङ्कं वि

च्छित्तिविशेषं निकामं मनोहरमतिरम्यं वहति तदेव शिवनाम निरामयं निर्गता आमयाः

क्लेशा अविद्यादयः पश्ञ्च यस्य तन्निरामयं, षडूर्मिरहितं वा । अकलङ्कं निष्कलङ्कमलं करणं

मे मम मुखेऽस्तु ॥
 

स्वहृदयमुपदिशति-

 
हृदय भावय भावमनाविलं निरवधान बधान दृढां मै[^१]मतिम् ।

त्वमसमर्थ समर्थयसे मुखं किमविनाशि विना शिवसेवनम् ॥ ३९ ॥
 

 
हे हृदय, त्वं कर्तृ अनाविलमकलुषं भावं स्वभावं भावय धारय । हे निरवधान स
दे

दै
वावधानरहित हृदय, दृढां भक्तिविषये मतितिं बुद्धि बधान । हे. असमर्थ अक्षम, शिव-

सेवनं श्रीशिवोपासनं विना अविनाशि अनपायं कि सुखं समर्थयसे जानासि ॥
 

 
भवरसं प्रति संप्रति तृष्णया त्यजसि मानस मानसमुन्नतिम् ।

मदनशासनशासनतः परं कमनपायमुपायमुदीक्षसे ॥ ४० ॥
 

 
हे मानस चित्त, संप्रतीदानीं भवे संसारे रसस्तं प्रति तृष्णया लोभेन मानस्य मानेन

वा समुन्नतिस्तां त्यजसि । मदनशासनशासनतः श्रीशिवदर्शनतोऽनपायं; निर्नाशं कमुपायं

भवाम्भोध्युत्तरणोपायमुदीक्षसे ॥
 

 
उपवने पवनेरितमाधवीधवालते वालेते तरुपङ्किभिः ।

अमलकोमलकोषनिषण्णषट्चरणपारणपावनपङ्कजे ॥ ४१ ॥
 

 
[^
]. 'धृतिम्' स्व.
 
Digitized by Google