This page has not been fully proofread.

१४४
 
काव्यमाला ।
 
मदमन्मथमत्सरा गर्वकामक्रोधा यस्य सः । एकमना एकाग्रचित्तो मनाक् सन्नहं शश-
धराभरणं चन्द्रमौलिं श्रये ॥
 
आत्मानं विनोदयति कविः-
इदमहं करुणामृत सागरं शशिकिशोरशिरोमणिमर्थये ।
 
व्रजतु जन्मनि जन्मनि मे वपुर्भवदुपासनसाधनतामिति ॥ ३७ ॥
 
करुणामृतसागरं कृपामृताम्भोधिं शशिकिशोरशिरोमणि बालेन्दुवतंसमिदमेवार्थये ।
एवशब्द आर्थ: । इति किमित्याह - जन्मनि जन्मनि भवे भवे मे वपुः कलेवरं भवदु-
पासनसाधनतां भवदाराधनहेतुतां गच्छत्विति ॥
 
कमपि नाम निकाममनोहरं वहति टङ्कमनङ्कुशमेव यत् ।
 
तदकलङ्कमलंकरणं मुखे भवतु मे शिवनाम निरामयम् ॥ ३८ ॥
 
नाम निश्चये । यच्छिवनाम शिवशिवेति नाम निरङ्कुशं निर्यन्त्रणं कमपिटकं वि
च्छित्तिविशेषं निकामं मनोहरमतिरम्यं वहति तदेव शिवनाम निरामयं निर्गता आमयाः
क्लेशा अविद्यादयः पश्च यस्य तन्निरामयं, षडूमिरहितं वा । अकलङ्क निष्कलङ्कमलं करणं
मे मम मुखेऽस्तु ॥
 
स्वहृदयमुपदिशति-
हृदय भावय भावमनाविलं निरवधान बधान दृढां मैतिम् ।
त्वमसमर्थ समर्थयसे मुखं किमविनाशि विना शिवसेवनम् ॥ ३९ ॥
 
हे हृदय, त्वं कर्तृ अनाविलमकलुषं भावं स्वभावं भावय धारय । हे निरवधान स
देवावधानरहित हृदय, दृढां भक्तिविषये मति बुद्धि बधान । हे. असमर्थ अक्षम, शिव-
सेवनं श्रीशिवोपासनं विना अविनाशि अनपायं कि सुखं समर्थयसे जानासि ॥
 
भवरसं प्रति संप्रति तृष्णया त्यजसि मानस मानसमुन्नतिम् ।
मदनशासनशासनतः परं कमनपायमुपायमुदीक्षसे ॥ ४० ॥
 
हे मानस चित्त, संप्रतीदानीं भवे संसारे रसस्तं प्रति तृष्णया लोभेन मानस्य मानेन
वा समुन्नतिस्तां त्यजसि । मदनशासनशासनतः श्रीशिवदर्शनतोऽनपायं; निर्नाशं कमुपायं
भवाम्भोध्युत्तरणोपायमुदीक्षसे ॥
 
उपवने पवनेरितमाधवीधवालते वालेते तरुपङ्किभिः ।
अमलकोमलकोषनिषण्णषट्चरणपारणपावनपङ्कजे ॥ ४१ ॥
 
१. 'धृतिम्' स्व.
 
Digitized by Google