This page has been fully proofread once and needs a second look.

१० स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
१४३
 
तत् । विश्वस्यामङ्गलस्य संसाररूपाभद्रस्य भङ्गकारि रत्नमद्भुतं जयति सर्वोत्कृष्टं वर्तते ।

अहो आश्चर्ये ॥
 

 
जयति जन्मजरामरणव्यथाशमसमर्थमनर्थनि[^१]बर्हणम् ।

सकलमङ्गलधाम सुधामयं भगवदर्चननाम महौषधम् ॥ ३२ ॥
 

 
जन्मजरामरणैर्व्यथा तस्याः शमे समर्थम् । तथा अनर्थानामविद्यादिपञ्चक्लेशानां नि-

बर्हणम् । सकलमङ्गलस्य कैवल्यरूपस्य धाम स्थानम् । सुधामयं रसायनमयम् । श्रीशि-

वचरणाम्बुजपूजननामकं महौषधं जयति। संजीवनाद्यौषधवरेभ्योऽपि दुष्प्रापमित्यर्थः ॥

 
इदमसाधितमेव रसायनं निरुपभोगमिदं सुखमक्षयम् ।

अमृतमेतदनम्बुधिमन्थनं यदविनश्वरमीश्वरसेवनम् ॥ ३३ ॥
 
बृ

 
वृ
द्धत्वेऽपि वलीपलितजराहरमनेकरसौषघिधिसाधितं रसायनमित्यायुर्वेदे । इदं पुनर

साधितमेव रसायनं भवति । इदं पुनर्निरुपभोगमनुच्छिष्टमक्षयमै कान्तिकात्यन्तिककर्म-

दुःखनिवृत्तिरूपं सुखम् । इदं पुनरम्बुधिमथनं विनैवामृतं पीयूषम् । किमित्येतदाह -

अविनश्वरमेकनिमेषमात्रेऽप्यभङ्गुरमच्छिद्रमीश्वरसेवनं परमेश्वरसेवनम् । विभावनाध्वनिः ॥

 
किमफलैरपरैर्भवशम्बरैः करितुरंगरथाम्बरडम्बरैः ।
 

भगवदङ्ग्घ्रिसरोरुहसेवनव्यसनमस्तु मै[^२]ममानिधनं धनम् ॥ ३४ ॥

 
संसारेन्द्रजालैर्हस्त्यश्वरथवस्त्राणामा डम्बरैराटोपैः किं ममास्ति । न किंचिदित्यर्थः ।

श्रीशिवभट्टारकचरणकमलसेवाव्यसनमेव मम अनिधनं निर्नाशं धनमस्तु । एतद्द्वृत्तानु-

सारेण ममाप्येकं वृत्तम् – 'तातस्त्राता नहि न सहजाश्वासनं यत्र चाम्बास्नेहारम्भो भ-

वति च मृषा बन्धवो यत्र वन्ध्याः । चौराहार्यं क्षयविरहितं खिद्यतां देहभाजामेकं त

स्मिन्पथि सुमधुरं शम्बलं शंभुनाम ॥
 

 
वहतु सा रमणी रमणीयताममृतमस्त्वमृतं मधु वा मधु ।
 

भवतु निर्वृतिधाम तु यामिनीरमणमण्डनसेवनमेव नः ॥ ३५ ॥
 

 
सा प्रसिद्धा रमणी वराङ्गना रमणीयतामन्यजनमनोहारिणीत्वं वहतु धारयतु । अ-

मृतं निर्जरत्वविधायि अमृतमेवास्तु । मधु माक्षिकं मधु वा
…।निर्वृति
धाम परमानन्दधाम कैवल्यविश्रान्तिदमस्तु ॥
 
निर्वृति
 

 
अहमहर्निशमेकमना मनागुपरमन्मदमन्मथमत्सरः ।

भवगतीरवगत्य दुरत्ययाः शशधराभरणं शरणं श्रये ॥ ३६ ॥

 
दुरत्यया अक्षया भवगतीरवगत्य ज्ञात्वा अहर्निशं सर्वदा उपरमन्त उपरमं प्राप्ता
 

 
[^
]. 'निवारणम्' क.
[^
]. 'ममातिघनं' ख.
 
Digitized by Google