This page has not been fully proofread.

१४२
 
काव्यमाला ।
 
भवति पश्यति नश्यति दुर्गतिः स्फुरति शक्तिरुपैति धृतिं मतिः ।
स्तुतिकृति प्रतिपत्तिमति श्रुतिस्मृतिमृति स्थितिमेति च निर्वृतिः ॥ २८ ॥
 
हे महेश, भवति पश्यति कृपयावलोकयति दृष्टयंशेन दुर्गतिर्नश्यति । तथा शक्तिः
सामर्थ्य स्फुरत्युल्लसति । तथा मतिर्बुद्धिर्वृति स्थैर्यमुपैति । तथा स्तुतिकृति स्तुति करो-
तीति स्तुतिकृत् तस्मिन्स्तुतिकृति तव स्तुतिकृति भक्तजने मादृशे निर्वृतिः परमा-
नन्दः स्थितिमेति । कीदृशे स्तुतिकृति । प्रतिपत्तिमति प्रतिपत्तिः सर्वतः पूज्यता त-
द्वति । पुनः किंभूते । श्रुतिस्मृतिभृति श्रुतिस्मृतिधारके । तत्पारंगम इत्यर्थः । अत्र
विशेषणसामर्थ्येन भवत्पादाम्भोरुहस्तुतिपरस्य सर्वतः पूज्यतां श्रुतिस्मृतिपारंगमत्वमात्य-
न्तिकदुःखनिवृत्तिरूपः परमानन्दश्च भवतीत्यर्थः (व्यज्यते) ॥
 
कति न बुद्बुदवद्भववारिधाविह लसन्ति गलन्ति च जन्तवः ।
 
समजान स्टहणीयजनिः पुनर्जगति कश्चन यः शिवसेवकः ॥ २९ ॥
 
इहास्मिन्भववारिधौ संसाराणवे कति न जन्तवोऽसंख्याता लसन्त्युद्भवन्ति गलन्ति
लीयन्ते च । कथम् । बुद्बुदवत् बुद्बुदा इव जलापूरे तद्विक्षोभेणोद्भूता जलस्फोटा बुद्बुदा-
• श्रीशिवभक्तोऽजनि स एव धन्य इत्यर्थः ॥
 
....
 
स्तद्वत् ।
 
सपदि पीठविलोठितमूर्तिभिर्भगवतः शुचिभिर्घृतभक्तिभिः ।
 
चरणरेणुकणैरिव मादृशैदिविषदामपि मूर्ध्नि पदं कृतम् ॥ ३० ॥
 
दिष्टयेति शेषः । मादृशैर्षहुभिर्घृतभक्तिभिर्घृता भक्तिर्वाङ्मनःकायकर्मभिस्तदुपासास-
क्तिर्यैस्तादृशैः । तथा शुचिभि: स्वच्छहृदयैः । सपदि इदानीं पीठे विलोठिता पातिता
मूर्तिर्निजतनुर्यैस्ते तादृशैः श्रीभगवतश्चरणरेणुकणैरिव । धृतभक्तिभिर्घृता भक्तिर्विच्छि
त्तिर्यैस्ते । शेषं प्राग्वत् । दिविषदामपि समस्तदेवानामपि मूर्ध्नि शिरसि पदं धृतम् । यथा
भगवत्पदारविन्दरेणुभिर्देवानां देवानां शिरसि स्थानं कृतम् । प्रणामावसरे तेषां मूर्ध्नि
धारणात् । तथा मादृशैरपि बहुभिर्देवशिरसि पदं कृतमिति प्रतिक्षणं श्रीशिवैकताध्या.
नान्निश्चितं संपन्नमेवेति । श्रीकाव्यप्रकाशे – 'पदैकदेशरचनावर्णेष्वपि रसादयः' इत्यत्र
कारिकायां 'रमणीयः क्षत्रियकुमार आसीदितिवत् 'विच्छिन्नाभ्रविलापं वा विलीये न-
गमूर्धनि ।' मूर्ध्न्यपि पदं कृतमिति कालस्य व्यञ्जकत्वं तज्ज्ञैरूत्यम् (?) ॥
 
निपततां विषमे विपदम्बुधौ यदवलम्बनमस्तविडम्बनम् ।
 
जगदमङ्गलभङ्गविधायि तज्जयति रत्नमहो शिवसेवनम् ॥ ३१ ॥
 
विषमे कठिनेऽतिदुस्तरे विपदम्बुधौ जन्मजरामृतिरूपार्णवे निपततां जन्तूनां यदस्त
विडम्बनं अस्ता त्यक्ता वारिता वा विडम्बना यस्मिन्येन वा अवलम्बनमाधारो भवति
 
Digitized by Google