This page has been fully proofread once and needs a second look.

[^० स्तोत्रम् ]
 
स्तुतिकुसुमा
इदमुदञ्जलिः ।
 
ईदमुदश्
चति मेघमयं महत्पिहितभास्वदमन्दमहस्तमः ।
 

घनबलोऽपि स काल उपस्थितस्तदिह हंस पदं कुरु मानसे ॥ २५ ॥

 
हे हंस परमात्मन् परमशिव। 'हंसो विहंगभेदे स्यादकेंर्के विष्णौ हयान्तरे । योगिम-

न्त्रादिभेदेषु परमात्मनि मत्सरे ॥ निर्लोभनृपतौ हंसः शरीरमरुदन्तरे।' इति विश्वः ।

मेघमयमित्यत्र मे, अघमयमित्यपि पदच्छेदः । हे हंस परमात्मन्, राजहंसच, पिहित-

माच्छादितं भास्वत्कान्तिमत् अमन्दं बहु महस्तेजो ज्ञानस्वरूपं येन तत्तादृशं महत्तमो

विषादात्मकस्तमोगुण उदश्ञ्चत्युल्लसति । घनं सान्द्रं बलं सामर्थ्यं यस्य स तादृशः स

कालः कृतान्तः, महाबली तुरीययुगसमयो वा काल उपस्थितः सविधं प्राप्तः । तत्त-

स्मात्कारणादिहास्मिन्समये इहास्मिन्मामके वा मानसे चित्ते पदं सर्वदा स्थितिं कुरु ।

अथ च, इदं मेघमयं जलदप्रचुरम्, पिहितं भास्वतो विवस्वतोऽमन्दं बहु महस्तेजो येन

तत्तादृशं तमोऽन्धकारमुदञ्चत्युल्लसति । तथा च घनानां मेघानां बलं यत्र स तादृक्काल:

समयो वर्षाकालोऽप्युपस्थितः । अतो हेतोः हे हंस, त्वं मानसे मानसाख्य एव सरसि

स्थिति कुर्वित्यर्थान्तरम् । हंसा वर्षाकाले मानसं सरो यान्तीति प्रसिद्धिः ॥
 
.
 

 
इति यदन्तरनन्त तिरो दधन्मुदमुदञ्चति मोहमहातमः ।

तव रवीन्दु[^२]हुताशनचक्षुषो हृदि निवेदयतीदमसंनिधिम् ॥ २६ ॥
 

 
हे अनन्त ब्रह्मादिभिरपि दुष्प्रापान्त, अन्तः हृदि मुदं परमानन्दं तिरो दधदन्तर्हितं

कुर्वत् यन्मोहमहातमः अज्ञानरूपं मोहान्धकारं इति पूर्वोक्तप्रकारेणोदञ्चत्युक्ल्लसति । हे

अनन्त, इदं महातमो हृदि चित्ते मादृशामिति शेषः । मादृशां हृदि रवीन्दुहुताशनच-

क्षुषस्त्रिधामनयनस्य विश्वप्रकाशकस्य तवासंनिधिमसांनिध्यं निवेदयति वक्ति । मादृशां

हृदि परज्योतीरूपस्य तवासांनिध्येन मोहमहातमः प्रादुर्भाव इति भावः ॥

एतद्रुवृतोक्तं समर्थयति-

 
न हि महेश मनस्त्वदधिष्ठितं भ्रमयितुं प्रभवन्ति भवोर्मयः ।
 

न हि वनं हरिणाधिपरक्षितं क्षपयितुं कपयः क्वचन क्षमाः ॥ २७ ॥

 
हे महेश परमेश्वर, हि यस्मात्कारणात्त्वयातिकृपालुनाधिष्ठितं मनश्चित्तं भक्तजनस्य

भ्रमयितुं जन्मजरामरणावर्ते भ्रमयितुं भवोर्मयः संसारलहर्यो न प्रभवन्ति समर्था न भ

वन्ति । दृष्टं चैतत् । हि निश्चये । हरिणाधिपरक्षितं सिंहपालितं वनं काननं क्षपयितुं

बाधितुं कपयो वानराः क्वचन क्षमाः कदापि न क्षमा भवन्ति ॥
 
-
 
१४१
 

 
[^३]
'वैरमरण्यसरित्पुलिनस्थलीतरुतले फलमूलजलाशिनः ।

स्थितिरनर्गलवल्कलवाससो न शिवभक्तिमृते त्रिदशेन्द्रता ॥
 

( प्रक्षिप्तमेतत्)
 
[^
]. ख-पुस्तकेऽयं श्लोको नास्ति.
[^
]. 'विभावसु' ख
 

[^३]. अयं श्लोकः ख-पुस्तके
त्रुटितः.
 
( प्रक्षिप्तमेतत्)
३. अयं श्लोकः ख-पुस्तके
 
Digitized by Google