This page has been fully proofread once and needs a second look.

१४०
 
काव्यमाला ।
 
सुरभिगन्धिसहासमुखाम्बुजा
 
धृतमनोहरहंसकविभ्रमाः ।
 

यदि न मज्जनधाम नतञ्जुभ्रुवः शरदि संस्मरयेयुरगापगाः ॥ २० ॥
 

 
एवंभूता अगापगाः पर्वतनद्यः शरदि शरत्समये । पुरुषानिति शेषः । पुरुषान् कर्म-

भूतान् नतभ्रुवः कर्मभूता यदि न संस्मरयेयुः संस्मृताः प्रयुञ्जीरन् । अगापगाः किंभूताः ।

सुरभिगन्धयुक्तं सहासं विकासयुक्तं मुखमग्रं येषां तादृशान्यम्बुजानि यासु ताः । न-

तभ्रूणां पक्षे ताः कथंभूताः । सुरभिगन्धि सुगन्धं सहासमीषद्धासयुक्तं मुखं वदनमेवा -

म्बुजं यासां ताः ।......पुनः किंभूताः । धृतो मनोहरो रम्यो हंसा एव हंसका-

स्तेषां विभ्रमो याभिस्ताः ।............ 'हंसकः पादकटकः' इत्यमरः । अगा-

पगाः किंभूताः । मज्जनधाम मज्जनस्य स्नानस्य धाम गृहम् । नतभ्रुवोऽपि किंभूताः ।

मज्जनस्य भवाब्धौ ब्रुडनस्य स्थानम् । शब्दश्लेषोपमया स्मृतिरलंकारः ॥
 

 
यदि न दीर्घतमाः समवाप्नुयुः सहसि दुर्विषहोल्बणवायवः ।
घृ

धृ
तघनोष्मबृहत्तरुणी स्तनस्मरणकारणतामपि रात्रयः ॥ २१ ॥
 

 
सहसि हेमन्ते । 'स...... च बले मार्गशीर्षहेमन्तयोः पुमान्' इत्यमरः । दुविंषह

उल्ण उद्भटो वायुर्यासु ताः तथा दीर्घतमा अतिदीर्घा रात्रयो निशाः वृधृतघन ऊष्मा

यैस्ते तादृशा ये बृहन्तस्तरूणीस्तनास्तेषां स्मरणे कारणतां यदि न समवाप्नुयुः तदा-

पूर्वोक्तेन संबन्धः ॥
 

 
यदि भवेन्न घनावरणोद्गमग्लपितधामनि धामनिधौ बहिः ।
 

तपसि चेतसि च व्यसनाकुले तपास रूढरसोऽप्यलसो जनः ॥ २२ ॥
 

 
तपसि कृच्छ्रादिव्रते रूढो रसो यस्य स तादृशो जनस्तपस्विजनोऽपि व्यसनाकुले

वीनां पक्षिणामसनं हिमवायुना संकुचितपक्षतया दूरीभवनं तेनाकुले तपसि शिशिरे ।

'तपस्तु शिशिरे माघे क्लोषंलीबं कृच्छ्रादिके व्रते' इति मङ्गःखः । तथा चेतसि च सर्वलोकस्य

व्यसनैर्मृगयाक्षपानादिभिराकुले सति जनोऽलसो यदि न भवेत् । तथा कस्मिंश्च सति

बहिर्घनानां मेघानां यदावरणं सर्वत आच्छादनं तस्योद्गमस्तेन ग्लपितं धाम यस्य स

तस्मिन् धामनिधौ सूर्ये सति ॥
 

 
तदखिलापदुपोद्धरणक्षमं समधिगम्य दुरापमिदं पुनः ।

पवनवेल्लितबालमृणालिनीदलचलज्जलबिन्दुनिभं
वपुः ॥ २३ ॥
 
भवभवत्पदपङ्कजपूजनव्यसनसौमनसीमपहाय कः ।
 
वपुः ॥ २३ ॥
 

इह सहेत विभूतिलवोन्मिषन्मदकदर्यविकारकदर्थनाम् ॥ २४ ॥

(युग्मम् । [^१]अष्टादशभिः कुलकम् )
 

 
[^
]. 'अष्टादशभिः कुलकम्' इति क-पुस्तके नास्ति.
 
Digitized by Google