This page has not been fully proofread.

१४०
 
काव्यमाला ।
 
सुरभिगन्धिसहासमुखाम्बुजा
 
धृतमनोहरहंसकविभ्रमाः ।
 
यदि न मज्जनधाम नतञ्जुवः शरदि संस्मरयेयुरगापगाः ॥ २० ॥
 
एवंभूता अगापगाः पर्वतनयः शरदि शरत्समये । पुरुषानिति शेषः । पुरुषान् कर्म-
भूतान् नतभ्रुवः कर्मभूता यदि न संस्मरयेयुः संस्मृताः प्रयुञ्जीरन् । अगापगाः किंभूताः ।
सुरभिगन्धयुक्तं सहास विकासयुक्तं मुखमग्रं येषां तादृशान्यम्बुजानि यासु ताः । न-
तभ्रूणां पक्षे ताः कथंभूताः । सुरभिगन्धि सुगन्धं सहासमीषद्धासयुक्तं मुखं वदनमेवा -
म्बुजं यासां ताः ।......पुनः किंभूताः । धृतो मनोहरो रम्यो हंसा एव हंसका-
स्तेषां विभ्रमो याभिस्ताः ।............ 'हंसकः पादकटकः' इत्यमरः । अगा-
पगाः किंभूताः । मज्जनधाम मज्जनस्य स्नानस्य धाम गृहम् । नतभ्रुवोऽपि किंभूताः ।
मज्जनस्य भवाब्धौ ब्रुडनस्य स्थानम् । शब्दश्लेषोपमया स्मृतिरलंकारः ॥
 
यदि न दीर्घतमाः समवाप्नुयुः सहसि दुर्विषहोल्बणवायवः ।
घृतघनोष्मबृहत्तरुणी स्तनस्मरणकारणतामपि रात्रयः ॥ २१ ॥
 
सहसि हेमन्ते । 'स...... च बले मार्गशीर्षहेमन्तयोः पुमान्' इत्यमरः । दुविंषह
उल्वण उद्भटो वायुर्यासु ताः तथा दीर्घतमा अतिदीर्घा रात्रयो निशाः वृतघन ऊष्मा
यैस्ते तादृशा ये बृहन्तस्तरूणीस्तनास्तेषां स्मरणे कारणतां यदि न समवाप्नुयुः तदा-
पूर्वोक्तेन संबन्धः ॥
 
यदि भवेन्न घनावरणोद्गमग्लपितधामनि धामनिधौ बहिः ।
 
तपसि चेतसि च व्यसनाकुले तपास रूढरसोऽप्यलसो जनः ॥ २२ ॥
 
तपसि कृच्छ्रादिव्रते रूढो रसो यस्य स तादृशो जनस्तपस्विजनोऽपि व्यसनाकुले
वीनां पक्षिणामसनं हिमवायुना संकुचितपक्षतया दूरीभवनं तेनाकुले तपसि शिशिरे ।
'तपस्तु शिशिरे माघे क्लोषं कृच्छ्रादिके व्रते' इति मङ्गः । तथा चेतसि च सर्वलोकस्य
व्यसनैर्मृगयाक्षपानादिभिराकुले सति जनोऽलसो यदि न भवेत् । तथा कस्मिंश्च सति
बहिर्घनानां मेघानां यदावरणं सर्वत आच्छादनं तस्योद्गमस्तेन ग्लपितं धाम यस्य स
तस्मिन् धामनिधौ सूर्ये सति ॥
 
तदखिलापदुपोद्धरणक्षमं समधिगम्य दुरापमिदं पुनः ।
पवनवेल्लितबालमृणालिनीदलचलज्जलबिन्दुनिभं
भवभवत्पदपङ्कजपूजनव्यसनसौमनसीमपहाय कः ।
 
वपुः ॥ २३ ॥
 
इह सहेत विभूतिलवोन्मिषन्मदकदर्यविकारकदर्थनाम् ॥ २४ ॥
(युग्मम् । अष्टादशभिः कुलकम् )
 
१. 'अष्टादशभिः कुलकम्' इति क-पुस्तके नास्ति.
 
Digitized by Google