This page has been fully proofread once and needs a second look.

१० स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
यदि मधौ मधुपानमदोन्मदभ्रमरगायनगुञ्जितगीतयः ।

सुखलवानुभवाय कृतस्तृहं हर हरेयुरिमं न मनोमृगम् ॥ १६ ॥
 
१३९
 

 
हरति पापानि सर्वाणीति हरः । तत्संबोधनं हे हर, मधुनः किंजल्कस्य पानं तेनो-

न्मदाः सहर्षा ये भ्रमरास्त एव गायनास्तेषां गुञ्जितान्येव गीतयः सुखलवस्यानुभवाय

कृतलोभमिमं मनोमृगं चित्तहरिणं मधौ वसन्ते यदि न हरेयुस्तदा । सुखलवेति वचनं

परिणामे सर्वस्यैव दुःखकारित्वात् ॥
 
लताः ॥ १७ ॥
 

 
अभिनवस्तबकस्तनसंनताः पवननर्तितपलवपाणयः ।

यदि न बन्धनिबन्धनमृध्नुयुर्मधुपगुञ्जितमञ्जुगिरो
लताः ॥ १७ ॥
 
एवंविधा लता वल्लयः विशेषणसाम्याल्लता एव वराङ्गना यदि न ऋभुध्नुयुः समृद्धिधिं प्रा-

प्रुनुयुः । लताकामिन्यः किंभूताः । अभिनवा ये स्तबकास्त एव स्तनास्तैः संनताः । तथा

पवनेन मलयानिलेन नर्तिताः पल्लवा एव पाणयः करा यासाम् । तथा मधुपानां रोल.

म्वाबानां गुञ्जितमेव मञ्जुर्मधुरा गीर्यासां ता लताः । किम् । बन्धनिबन्धनम् । मनोमृग-

स्येति शेषः । मनोमृगबन्धनिबन्धनभूताः । समासोक्तिरलंकारः । तदा ॥
 

 
यदि शुचौ मनसीव न मालिनां घनमनेहसि तापमुपावहेत् ।

सरजसो हरितस्तरुणैः करैरविरलं परिरिप्सुरहर्पतिः ॥ १८ ॥
 

 
तरुणैर्नवैः करैः किरणैरेव हस्तैः सह रजसा धूल्या वर्तन्ते यास्ताः सरजसः सधू-

लिकाः सह रजसा आर्तवेन वर्तन्ते यास्ताश्च सरजसो रजस्वलाश्च । 'स्याद्रजः पुष्प-

मार्तवम्' इत्यमरः । हरितो दिशोऽविरलं गाढं परिरिप्सुः परिरन्ब्धुमालिङ्गितुमिच्छुर-

र्पतिः सूर्यः समासोक्तिबलेन कामी च मानिनां मानवतां 'वयं कामिनीसविधं न या

स्याम:' इति मानिनां शुचौ निर्मले मनसि चित्त इव शुचौ ग्रीष्मे अनेहसि ग्रीष्मकाले

यदि घनं तापं संतापमुत्पादयेत् । अत्रापि समासोक्तिरलंकारः । तदा । पूर्ववत्संबन्धः ॥
 
ट्यु

 
पृथु
लसज्जघनोरुपयोधरा गुरुमरुञ्च्चपलाकुलिताम्बराः ।
 

यदि भवेयुरिमा न घनागमे मृगदृशश्च दिशश्च धृतिच्छिदः ॥ १९ ॥
 

 
इमा मृगदृशो मृगाक्ष्यो दिशो हरितश्च घनागमे प्रावृषि धृतिच्छिदो धैर्यच्छिदो

यदि न भवेयुः । द्वे अपि विशिनष्टि - मृगदृशः किंभूताः । जघनं च ऊरू च पयोधरौ

च तज्जघनोरुपयोधरम् । प्राण्यङ्गानां समाहारः । पृथु महत् लसज्जघनोरुपयोधरं

यासां ताः । पुनः किंभूताः । गुरुणा महता मरुता वायुना चपलमाकुलितमम्बरं वासो

यासां ताः । दिशश्च किंभूताः । पृथुला महान्तः सज्जा घना उरवः पयोधरा मेघा यासां

ताः । तथा गुरुणा महत्ता वातेन चपलया विद्युता चाकुलितमम्बरमाकाशं यासु ताः ।

समुच्चयालंकारः ॥
 
Digitized by Google