This page has not been fully proofread.

१० स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
यदि मधौ मधुपानमदोन्मदभ्रमरगायनगुञ्जितगीतयः ।
सुखलवानुभवाय कृतस्टहं हर हरेयुरिमं न मनोमृगम् ॥ १६ ॥
 
१३९
 
हरति पापानि सर्वाणीति हरः । तत्संबोधनं हे हर, मधुनः किंजल्कस्य पानं तेनो-
न्मदाः सहर्षा ये भ्रमरास्त एव गायनास्तेषां गुजितान्येव गीतयः सुखलवस्यानुभवाय
कृतलोभमिमं मनोमृगं चित्तहरिणं मधौ वसन्ते यदि न हरेयुस्तदा । सुखलवेति वचनं
परिणामे सर्वस्यैव दुःखकारित्वात् ॥
 
लताः ॥ १७ ॥
 
अभिनवस्तबकस्तनसंनताः पवननर्तितपलवपाणयः ।
यदि न बन्धनिबन्धनमृनुयुर्मधुपगुञ्जितमञ्जगिरो
एवंविधा लता वल्लयः विशेषणसाम्याल्लता एव वराङ्गना यदि न ऋभुयुः समृद्धि प्रा-
प्रुयुः । लताकामिन्यः किंभूताः । अभिनवा ये स्तबकास्त एव स्तनास्तैः संनताः । तथा
पवनेन मलयानिलेन नर्तिताः पल्लवा एव पाणयः करा यासाम् । तथा मधुपानां रोल.
म्वानां गुजितमेव मञ्जुर्मधुरा गीर्यासां ता लताः । किम् । बन्धनिबन्धनम् । मनोमृग-
स्येति शेषः । मनोमृगबन्धनिबन्धनभूताः । समासोक्तिरलंकारः । तदा ॥
 
यदि शुचौ मनसीव न मालिनां घनमनेहसि तापमुपावहेत् ।
सरजसो हरितस्तरुणैः करैरविरलं परिरिप्सुरहर्पतिः ॥ १८ ॥
 
तरुणैर्नवैः करैः किरणैरेव हस्तैः सह रजसा धूल्या वर्तन्ते यास्ताः सरजसः सधू-
लिकाः सह रजसा आर्तवेन वर्तन्ते यास्ताश्च सरजसो रजस्वलाश्च । 'स्याद्रजः पुष्प-
मार्तवम्' इत्यमरः । हरितो दिशोऽविरलं गाढं परिरिप्सुः परिरन्धुमालिङ्गितुमिच्छुर-
इर्पतिः सूर्यः समासोक्तिबलेन कामी च मानिनां मानवतां 'वयं कामिनीसविधं न या
स्याम:' इति मानिनां शुचौ निर्मले मनसि चित्त इव शुचौ ग्रीष्मे अनेहसि ग्रीष्मकाले
यदि घनं तापं संतापमुत्पादयेत् । अत्रापि समासोक्तिरलंकारः । तदा । पूर्ववत्संबन्धः ॥
 
ट्युलसज्जघनोरुपयोधरा गुरुमरुञ्चपलाकुलिताम्बराः ।
 
यदि भवेयुरिमा न घनागमे मृगदृशश्च दिशश्च धृतिच्छिदः ॥ १९ ॥
 
इमा मृगदृशो मृगाक्ष्यो दिशो हरितश्च घनागमे प्रावृषि धृतिच्छिदो धैर्यच्छिदो
यदि न भवेयुः । द्वे अपि विशिनष्टि - मृगदृशः किंभूताः । जघनं च ऊरू च पयोधरौ
च तज्जघनोरुपयोधरम् । प्राण्यङ्गानां समाहारः । पृथु महत् लसज्जघनोरुपयोधरं
यासां ताः । पुनः किंभूताः । गुरुणा महता मरुता वायुना चपलमाकुलितमम्बरं वासो
यासां ताः । दिशश्च किंभूताः । पृथुला महान्तः सज्जा घना उरवः पयोधरा मेघा यासां
ताः । तथा गुरुणा महत्ता वातेन चपलया विद्युता चाकुलितमम्बरमाकाशं यासु ताः ।
समुच्चयालंकारः ॥
 
Digitized by Google