This page has been fully proofread once and needs a second look.

१३८
 
काव्यमाला ।
 
अमिलषेयुरनर्गलदुर्गतिप्रसरदीर्घनिदाघनिपीडिताः ।
 

यदि घनागमवन्न धनागमं प्रणयिनस्तृषिता हरिणा इव ॥ ११ ॥

 
प्रणयिनोऽथिंर्थिनो जना अनर्गला अव्युच्छिन्ना या दुर्गतिर्जन्मजरामरणव्यापत् बहि-

र्व्यापारेण वा कालकर्णी तस्याः प्रसर एव दीर्घौघो निदाघस्तेन निपीडिता व्यथितास्तृ-

षिता हरिणा घनागममिव धनागमं यदि नाभिलषेयुस्तदा ॥
 

 
यदि न पीनघनस्तनमङ्गुरत्रिवलिभङ्गितरङ्गितमध्यमाः ।
 

इह हरेयुरपाङ्गविलोकितैर्धृतरतिप्रमदाः प्रमदा मनः ॥ १२ ॥
 

 
पीनाः पोपीवरा घना दृढा ये स्तनास्तैर्भङ्गुरं त्रिवलिभनिङ्गि तरङ्गितं मध्यममुदरं यासां

ताः । तथा धृतरतिप्रमदाः धृतौ रतिप्रमदौ परमसुखसंतोषौ याभिस्ताः प्रमदा वरका

मिन्य इद्द जगत्यपाङ्गविलोकितैर्नेत्र त्रिभागावलोकनैर्यदि न मनश्चित्तं हरेयुस्तदा ॥
 

 
बलवदिन्द्रियतस्करसंकुले विषयभीमभुजंगमभीषणे ।

दुरितदीर्घदवानलदुःसहे बहलमोहतमोहतसंविदि ॥ १३ ॥

 
कृतधियोऽपि भवाध्वनि धावतः प्रबलकर्मरयापहृतात्मनः ।

अवसरे प्रहरेयुरमी न चेन्मदनमानमुखाः परिपन्थिनः ॥ १४ ॥
 

(युग्मम्)
 

 
बलवन्ति यानीन्द्रियाणि बुद्धीन्द्रियाणि तान्येव तस्करा दस्यवस्तैः संकुले भृते ।

तथा विषयाः पञ्च शब्दाद्यास्त एव भीमा भुजंगा अहयस्तैर्भीषणे भयंकरे । तथा दुरितं

दिनाद्दिनमुपचीयमानं दीर्घो दवानलो दवामिग्निस्तेन दुःसहे । तथा बहलो यो मोहोऽविद्या-

परपर्यायमज्ञानं तदेव तमो ध्वान्तं तेन हता संविच्चैतन्यप्रकाशो यस्मिन्नेवंविधे भवाध्व-

मि संसारदीर्घाध्वनि धावतो जनान् । प्रबलेन कर्मवायो रयेण वेगेनापहृत आत्मा येषां

ते सादृशान् । अवसरे शिवैकताध्यानावसरेऽमी मदनमानमुखाः कामाहंकारक्रोधाद्याः

परिपन्थिनो दस्यवो यदि न प्रहरेगुयुस्तदा । गर्नेभे युग्मम् ॥
 

 
उपचितोऽभिनवाम्रदलावलीकवलनाकुलकोकिलकूजितैः ।
 

यदि न तर्जयितुं प्रभवेन्मघौ मदनदिग्विजयोद्यमडिण्डिमः ॥ १५ ॥
 

 
अभिनवान्याम्रदलानि रसालदलानि तेषामावलिः पस्तिङ्क्तिस्तस्याः कवलने आस्वादे

आकुला ये कोकिलास्तेषां कूजितैः कुहूशब्दैरुपचितो वर्धितो मदनस्य कामस्य दि.

ग्विजयोद्योगे डिण्डिमः पटहः । जनानिति शेषः । जनांस्तर्जयितुं 'मदाज्ञाकारिणः प्रति-

क्षणं भवत' इति यदि न प्रभवेद्यदि न शक्नुयात् । " डिण्डीति शब्दं मिनोति डिण्डिमः ।

'अन्येषामपि' इति ड: " इति रायमुकुटीकारः ॥
 
Digitized by Google