This page has not been fully proofread.

१३८
 
काव्यमाला ।
 
अमिलषेयुरनर्गलदुर्गतिप्रसरदीर्घनिदाघनिपीडिताः ।
 
यदि घनागमवन्न धनागमं प्रणयिनस्तृषिता हरिणा इव ॥ ११ ॥
प्रणयिनोऽथिंनो जना अनर्गला अव्युच्छिन्ना या दुर्गतिर्जन्मजरामरणव्यापत् बहि-
र्व्यापारेण वा कालकर्णी तस्याः प्रसर एव दीर्घौ निदाघस्तेन निपीडिता व्यथितास्ट-
षिता हरिणा घनागममिव धनागमं यदि नाभिलषेयुस्तदा ॥
 
यदि न पीनघनस्तनमङ्गुरत्रिवलिभङ्गितरङ्गितमध्यमाः ।
 
इह हरेयुरपाङ्गविलोकितैर्धृतरतिप्रमदाः प्रमदा मनः ॥ १२ ॥
 
पीनाः पोवरा घना दृढा ये स्तनास्तैर्भङ्गुरं त्रिवलिभनि तरङ्गितं मध्यममुदरं यासां
ताः । तथा धृतरतिप्रमदाः धृतौ रतिप्रमदौ परमसुखसंतोषौ याभिस्ताः प्रमदा वरका
मिन्य इद्द जगत्यपाङ्गविलोकितैर्नेत्र त्रिभागावलोकनैर्यदि न मनश्चित्तं हरेयुस्तदा ॥
 
बलवदिन्द्रियतस्करसंकुले विषयभीमभुजंगमभीषणे ।
दुरितदीर्घदवानलदुःसहे बहलमोहतमोहतसंविदि ॥ १३ ॥
कृतधियोऽपि भवाध्वनि धावतः प्रबलकर्मरयापहृतात्मनः ।
अवसरे प्रहरेयुरमी न चेन्मदनमानमुखाः परिपन्थिनः ॥ १४ ॥
 
(युग्मम्)
 
बलवन्ति यानीन्द्रियाणि बुद्धीन्द्रियाणि तान्येव तस्करा दस्यवस्तैः संकुले भृते ।
तथा विषयाः पञ्च शब्दाद्यास्त एव भीमा भुजंगा अहयस्तैर्भीषणे भयंकरे । तथा दुरितं
दिनाद्दिनमुपचीयमानं दीर्घो दवानलो दवामिस्तेन दुःसहे । तथा बहलो यो मोहोऽविद्या-
परपर्यायमज्ञानं तदेव तमो ध्वान्तं तेन हता संविचैतन्यप्रकाशो यस्मिन्नेवंविधे भवाध्व-
मि संसारदीर्घाध्वनि धावतो जनान् । प्रबलेन कर्मवायो रयेण वेगेनापहृत आत्मा येषां
ते सादृशान् । अवसरे शिवैकताध्यानावसरेऽमी मदनमानमुखाः कामाहंकारक्रोधाद्याः
परिपन्थिनो दस्यवो यदि न प्रहरेगुस्तदा । गर्ने युग्मम् ॥
 
उपचितोऽभिनवाम्रदलावलीकवलनाकुलकोकिलकूजितैः ।
 
यदि न तर्जयितुं प्रभवेन्मघौ मदनदिग्विजयोद्यमडिण्डिमः ॥ १५ ॥
 
अभिनवान्याम्रदलानि रसालदलानि तेषामावलिः पस्तिस्याः कवलने आस्वादे
आकुला ये कोकिलास्तेषां कूजितैः कुहूशब्दैरुपचितो वर्धितो मदनस्य कामस्य दि.
ग्विजयोद्योगे डिण्डिमः पटहः । जनानिति शेषः । जनांस्तर्जयितुं 'मदाज्ञाकारिणः प्रति-
क्षणं भवत' इति यदि न प्रभवेद्यदि न शक्नुयात् । " डिण्डीति शब्दं मिनोति डिण्डिमः ।
'अन्येषामपि' इति ड: " इति रायमुकुटीकारः ॥
 
Digitized by Google