2023-10-12 04:46:25 by jayusudindra
This page has been fully proofread once and needs a second look.
स्तुतिकुसुमाञ्जलिः ।
१३७
पदि तत्क्षणमेव जगद्गुरुं जगन्नाथं श्रीशिवं विज्ञपयामि निवेदयामि ॥
अपि जगद्विदितः करुणापरः परहिताहितमूर्तिपरिग्रहः ।
किमिति हंसि न हंस हृदम्बुजे कृतपदो विपदः शरणार्थिनाम् ॥ ७ ॥
हे हंस परमात्मन्परमशिव । 'स्वगयोगिभिदोर्
प्राणे चात्मनि च' इति मङ्
यालुः । तथा परहितार्थे भवोदधिमग्नजगदुद्धरणार्थमाहितो
थरूपस्त्वं शरणार्थिनां शरणागतानाम् । मादृशामित्यर्थः । हृदम्बुजे हृत्सरोजे कृतपदः
कृतस्थितिः किमिति विपदो जन्मजरामरणत्रासविपदो न हंसि । हंसोऽप्यम्बुजे पद्म-
समीपे कृतस्थितिर्दर्शनेनार्थिनां विपदो हन्तीति ज्योतिर्विदः ॥
यदि भवान्विदधीत हृदि स्थितिं व्यसनसंपदसौ प्रसरेत्कथम् ।
यदि न सा प्रसरेत्प्रसजेत्कथं बुधजनोऽप्यसमञ्जसकर्मसु ॥ ८ ॥
हे स्वामिन्, भगवान्परमकारुणिको यदि हृदि स्थितिं कुर्वीत तदासौ व्यसनसंपज्ज-
न्मजरामरणरूपव्यसनसंपत् । व्यसनानां कामक्रोधादीनां वा संपत् कथं प्रसरेत् । यदि
च सा न प्रसरेत्तदा बुधजनोऽपि विपश्चिज्जनोऽप्यसम
सजेत्प्रसक्तो भवेत् ॥
इतः परं वृत्ताष्टादशकेन महाकुलकमारभमाण आह-
इह
यदि न कातरतां परतन्त्रतामफलतां खलतां च भजेज्जनः ॥ ९ ॥
हे महेश परमेश, इ
हग्रहो ग्रहणहेवाकस्तेणन गृहीता मतिर्यस्य स जनः कातरतां दैन्यं परतन्त्रतां पराधीन-
त्वमफलतां व्यर्थतां खलतां दौर्जन्यं च यदि न भजेत्तदा भवत्पदारविन्दपूजाव्यसन-
परमानन्दविश्रान्तिमपहाय को विभूतिलेशोन्मिषन्मदकंदर्पविकारकदर्थनां सहेतेत्यग्रे
स्थितेन संबन्धः । एवमग्रेऽपि ॥
यदि भजेत न सज्जनसञ्जनव्यसनसर्पदनल्पकृपास्पदम् ।
हृदयमिन्दुमयूखसुखाहतिव्यतिकरद्रुतचन्द्रमणिश्रियम् ॥ १० ॥
जमस्येति शेषः । सज्जनानां सञ्जनं सङ्गः । 'संगमव्यसन' इति पाठे सज्जनसङ्ग एव
व्यसनं तेनोल्लसन्ती अनल्पा महती कृपा तस्या आस्पदं स्थानं जनस्य हृदयमिन्दुम-
यूखानां चन्द्रकिरणानां सुखेन या आहतिस्तस्या व्यतिकरेण संपर्केण द्रुतस्य चन्द्रका
न्तस्य श्रियं यदि न भजेत सेवेत तदेति पूर्ववत्संबन्धः ॥
१८
Digitized by Google