This page has not been fully proofread.

१० स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
गता अर्था धनानि यस्य तत्तादृशमुद्वहतः तथा व्यर्थ निरर्थकं पारलौकिकमार्गशम्बल-
रूपसुकृतलेशाकरणाव्यर्थमखिलं नृजन्म मनुष्यजन्म चोद्वहतो मम । तथा इदं वपुः श
रीरं कल्याणशून्यं कल्याणेन मुक्त्युपायरूपेण मङ्गलेन शून्यम्, कोषं गजगारं च कल्या-
णेन सुवर्णेन शून्यमुद्वहतो मम करुणां कृपां चित्ते कुरुष्व करुणां दीनां च गिरं श्रुतौ
कर्ण कुरुष्व ॥
 
१३५
 
अज्ञस्तावदहं न मन्दधिषणः कर्तुं मनोहारिणी-
श्राटूक्तीः प्रभवामि यामि भवतो याभिः कृपापात्रताम् ।
आर्तनाशरणेन किं तु कृपणेनाक्रन्दितं कर्णयोः
 
कृत्वा सत्वरमेहि देहि चरणं मूर्धन्यधन्यस्य मे ॥ ८२ ॥
 
हे स्वामिन्, तावत्प्राथम्ये अहमज्ञो भवामि अत एव मन्दधिषणो मन्दबुद्धिरहं
याभिः स्तुतिभिर्भवतः स्वामिनः कृपापात्रतां प्रेमास्पदत्वं यामि, ता मनोहारिणीर्मनो-
ज्ञाश्चाटूक्तीः कर्तुं न प्रभवामि न समर्थो भवामि । किं तु पक्षान्तरे। अशरणेन विगत-
शरणेनार्तेन कृपणे दीनेनाक्रन्दितं कर्णयोः कृत्वा सत्वरमविलम्बेन एहि । अधन्यस्याभा-
ग्यवतो मम मूर्धनि शिरसि चरणं पादकमलं देहि निधत्स्व ॥
 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्चिकया समेतं काश्मीरक-
महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाऊलौ
कृपणाक्रन्दनं नाम नवमं स्तोत्रम् ।
 
दशमं स्तोत्रम् ।
 
जयति चित्तचकोरकचन्द्रिका सुकृतिनां वदनाब्जरविच्छविः ।
श्रवणबर्हिणवर्षणवर्तनी हरिणकेतुकलामुकुटस्तुतिः ॥ १ ॥
 
हरिणकेतुकलामुकुटस्य चन्द्रकलामुकुटस्य श्रीशिवभट्टारकस्य स्तुतिर्जयति सर्वो-
त्कृष्टा भवतीति संबन्धः । सा का । सुकृतिनां विशिष्टपुण्यभाजां चित्तमेव चकोरकः
स्वनामप्रसिद्धो ज्योत्स्नापायी पक्षिविशेषः । तस्य चन्द्रिका ज्योत्स्नेत्यारोपः । तथा ते-
षामेव सुकृतिनां वदनमेवाब्जं पद्मं तस्मिन् रविच्छविः सूर्यप्रभाधन्यानां मुखारविन्द-
विकासविधायिनीत्यर्थः । तथा तेषामेव श्रीशंभुकथाकर्णनोत्सुकानां श्रवणानि कर्णा
एव बहिणा मयूरास्तेषु वर्षणवर्तनी वृष्टिधारा ॥
 
पुनरपि रूपकेण श्रीशिवभट्टारकस्तुतिप्रशंसां करोति-
जयति भक्तिलतानवमाधवः सुकृतपादपपक्कफलोद्भवः ।
विपद्रुपद्रवविक्लवबान्धवः सुकविसूक्तिवधूवदनासवः ॥ २ ॥
 
Digitized by Google