This page has been fully proofread once and needs a second look.

१३४
 
काव्यमाला ।
 
यत्त्वमीश्वरसंश्रयाणां नाथीकतेन्दुमुकुटानां हास्यमुपहासं चिकीर्षसि कर्तुमिच्छसि

तन्मा कृथाः । तवोचितं वच्मीत्यर्थः । हि यस्मात्कारणादसौ महेश्वरस्त्रिलोकनाथो द-

यालुराश्रिताः शरणागता वत्सला अतिप्रिया यस्य स तादृक्सानुग्रहोऽपि सप्रसादोऽपि

तवानुचितं पूर्वोक्तं न क्षमते न सहते । यद्वा दग्धस्यापि तव ब्रह्मादिप्रार्थनया सजीवी-

करणेन सानुग्रहोऽपीदमनुचितं न सहत इत्यर्थः ॥ कालोपालम्भकुलकम् ॥

 
भालस्थलीव तिलकेन वधूकटाक्ष-

विक्षोभितेन तिलकेन वनावलीव ।

विज्ञप्तिरेणतिलकेन विभावरीव
 

शोभां वसन्ततिलकेन बिभर्ति शंभोः ॥ ८० ॥
 

 
तिलकेन विशेषकेण । 'तिलकं तु विशेषकम्' इति कोषः । भालस्थलीव ललाटस्थ-

लीव यथा शोभां बिभक्र्ति । यथा च वधूकटाक्षविक्षोभितेन वध्वा वरकामिन्या यः

कटाक्षो नेत्रान्तस्तदालोकनेन विशोभितेन प्रफुल्लेन तिलकेन वृक्षविशेषेण वनावली

वनपङ्क्तिः शोभते । 'आलिङ्गनैः कुरबकस्तिलकः कटाक्षैः शिञ्जाननूपुरपदाहननैरशोकः ।

गण्डूषसीघुधुपतनैर्बकुलोऽङ्गनानामभ्येति माधवमये समये विकासम् ॥' इति । यथा चै-

तिलकेन मृगाङ्केण चन्द्रेण विभावरी रात्रिः शोभते तथेयं मम विज्ञप्तिः श्रीशंभोः

कृता वसन्ततिलकेन वृत्तविशेषेण शोभां बिभर्ति । 'ख्याता वसन्ततिलका तभजा

जगौ गः ॥
 

 
निजावस्थां प्रभोर्निवेदयति-

वासः क्षीणदशं वयश्च करणग्रामं मनश्वाचाक्षमं

निःसारेषु दुरीश्वरेष्वपचितेरुद्वेगमङ्गेष्वपि ।

व्यर्थं वेश्म नृजन्म चाखिलमिदं कल्याणशून्यं वपुः
 

कोषं चोद्वहतः कुरुष्व करुणां चित्ते गिरं च श्रुतौ ॥ ८१ ॥

 
ममेत्यध्याहारः । क्षीणा दशा वस्त्रान्ता यस्य तत्तादृशं वासः । तथा क्षीणा दशा

बाल्यादयोऽवस्था ज्योतिः शास्त्रप्रसिद्धा आयुर्दायदशा वा यस्य तत्तादृशं वयश्च देहा-

वस्थाविशेषमुद्वहतो धारयतः करुणां दीनां गिरं श्रुतौ कर्णे कुरुष्व स्वामिन्नित्यर्थः । तथा

करुणां कृपां चित्ते कुरुष्व । एवमप्ग्रेऽपि । 'अथो दशा वर्तिरन्ते तु वाससो भूमनि

स्त्रियाम्' इति मङ्गःखः । 'देहावस्था वयः पक्षी' इति च । तथा करणप्ग्रामं करणानां बु.

द्धीन्द्रियकर्मेन्द्रियाणां ग्राम: समूहस्तमक्षममसमर्थे निजव्यापारासमर्थम्, न क्षमा क्षा-

न्तिर्यस्य तत्तादृशमक्षमं मनश्चोद्वहतः । तथा निःसारेष्वनुदारचित्ततयान्तःशून्येषु दु-

रीश्वरेषु कुनृपतिषु सत्सु अपचितेरपमानादुद्वेगं दैन्यमुद्वहतः । तथापचितेः क्षीणत्वा-

दङ्गेषु करचरणादिषूद्वेगमुच्चैर्वेगं जरया सकम्पत्वादुद्वहतः । तथा इदं वेश्म व्यर्थं वि.
 
Digitized by Google
 
-