This page has been fully proofread once and needs a second look.

९ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
१३३
 
द्रम् । स्वार्थेऽण् । स्वमानमुद्रां यद्यवसि रक्षसि तदा तान्मानवान्मनुष्यान्मा विमानय

मा सावमानान्कुरु । तान्कानित्याह – माभालेत्यादि । अमला: स्वच्छा ये इन्दुमौलिपा-

दारविन्दमकरन्दा श्चन्द्रमौलिपादपद्मरेणवस्तैः सितानि शुभ्राणि येषां नृणां धन्यानां

भालस्थलानि ललाटस्थलानि कलयसि पश्यसि ॥
 

 
दुर्वृत्तदर्पशमनाच्छमनोऽसि यत्त्वं
 

यद्वा यमोऽस्यमसंयमनात्तदन्यत् ।

मन्ये मदं शमयितुं प्रभवस्तवैव
 

त्वामेव वा यमयितुं भवभक्तिभाजः ॥ १७ ॥
 
छ्रे

 
हे
अन्तक, दुर्वृत्तानां दुराचाराणां दर्पोऽहंकारस्तच्छमनाद्यत्त्वं शमनोऽसि तथा-

मानां पापिनां संयमनात् यमयतीति यमः यत्त्वमसि तदन्यत् । अयुक्तिमदित्यर्थः । अत्र

स्वमतमाह–अहमिति मन्ये । युक्तिमदेतदित्यर्थः । यद्भवे महेशे भक्तिभाजस्तवैव मदं

शमयितुं प्रभवः समर्थाः । तथा त्वामेव यमयितुं ते प्रभवः । श्रीशिवभक्ता एव तव

शमना यमाश्चेत्यर्थः ॥
 

 
उद्धृवृत्तमन्तक नृशंस भृशं सगर्व
 

शर्कस्तव व्यवसितेष्वपि चेष्टसे यत् ।

तद्भावि भाविभवभैरवभैरवोग्र-
मा

भा
लानलोद्भवपराभवकृत्पुनस्ते ॥ ७८ ॥
 

 
हे नृशंस पुरुषघातक, भृशमत्यर्थेथं सह गर्वेण वर्तते यः स सगर्वः । तस्यामन्त्रणं हे

सगर्व साहंकार, अन्तक यम, त्वं कर्ता शर्वस्तव व्यवसितेष्वपि शंभुभक्त्युद्युक्तेष्वपि भृशं

यदुद्वृत्तं चेष्टसे । उद्वृत्तमिति क्रियाविशेषणम् । उत्क्रान्तमुल्लङ्घितं वृत्तमाचारो यत्र

तत् । तदुद्वत्तव्यापारविधानं भानां दीप्तीनां विभावः । भाशब्द आकारान्तः । भा-

विभावेन भैरवो भयानको यो भैरवोप्ग्रभालानलस्तस्मादुद्भवो यस्य स तादृग्यः

पराभवो दाहरूपस्तं करोतीति तादृशं पुनस्ते तव भावि । भविष्यतीत्यर्थः ॥

 
किं वान्यदर्कज विशङ्क विशङ्कटास्य
 

 

हास्यं चिकीर्षसि यदीश्वरसंश्रयाणाम् ।

तन्मा कृथा न हि तवाश्रितवत्सलोऽसौ
 

सानुग्रहोऽप्यनुचितं क्षमते महेशः ॥ ७९ ॥
 

(कालोपालम्भकुलकम्)

 
विगता शङ्का यस्य स विशङ्कस्तस्यामन्त्रणं हे विशङ्क, तथा विशङ्कटं विकरालमास्य

यस्य स तस्य संबोधनं हे विशङ्कटास्य, अर्कज यम, किं वान्यङ्क्रद्ब्रूमः । तवेति शेषः ।
 
Digitized by Google