2023-02-23 21:27:20 by ambuda-bot
This page has not been fully proofread.
९ स्तोत्रम् ]
स्तुतिकुसुमाञ्जलिः ।
१३३
द्रम् । स्वार्थेऽण् । स्वमानमुद्रां यद्यवसि रक्षसि तदा तान्मानवान्मनुष्यान्मा विमानय
मा सावमानान्कुरु । तान्कानित्याह – मालेत्यादि । अमला: स्वच्छा ये इन्दुमौलिपा-
दारविन्दमकरन्दा चन्द्रमौलिपादपद्मरेणवस्तैः सितानि शुभ्राणि येषां नृणां धन्यानां
भालस्थलानि ललाटस्थलानि कलयसि पश्यसि ॥
दुर्वृत्तदर्पशमनाच्छमनोऽसि यत्त्वं
यद्वा यमोऽस्यघमसंयमनात्तदन्यत् ।
मन्ये मदं शमयितुं प्रभवस्तवैव
त्वामेव वा यमयितुं भवभक्तिभाजः ॥ १७ ॥
छ्रे अन्तक, दुर्वृत्तानां दुराचाराणां दर्पोऽहंकारस्तच्छमनाद्यत्त्वं शमनोऽसि तथाघ-
मानां पापिनां संयमनात् यमयतीति यमः यत्त्वमसि तदन्यत् । अयुक्तिमदित्यर्थः । अत्र
स्वमतमाह–अहमिति मन्ये । युक्तिमदेतदित्यर्थः । यद्भवे महेशे भक्तिभाजस्तवैव मदं
शमयितुं प्रभवः समर्थाः । तथा त्वामेव यमयितुं ते प्रभवः । श्रीशिवभक्ता एव तव
शमना यमाश्चेत्यर्थः ॥
उद्धृत्तमन्तक नृशंस भृशं सगर्व
• शर्कस्तव व्यवसितेष्वपि चेष्टसे यत् ।
तद्भावि भाविभवभैरवभैरवोग्र-
मालानलोद्भवपराभवकृत्पुनस्ते ॥ ७८ ॥
हे नृशंस पुरुषघातक, भृशमत्यर्थे सह गर्वेण वर्तते यः स सगर्वः । तस्यामन्त्रणं हे
सगर्व साहंकार, अन्तक यम, त्वं कर्ता शर्वस्तव व्यवसितेष्वपि शंभुभक्त्युयुक्तेष्वपि भृशं
यदुद्वृत्तं चेष्टसे । उद्वृत्तमिति क्रियाविशेषणम् । उत्क्रान्तमुल्लङ्घितं वृत्तमाचारो यत्र
तत् । तदुद्वत्तव्यापारविधानं भानां दीप्तीनां विभावः । भाशब्द आकारान्तः । भा-
विभावेन भैरवो भयानको यो भैरवोप्रभालानलस्तस्मादुद्भवो यस्य स तादृग्यः
पराभवो दाहरूपस्तं करोतीति तादृशं पुनस्ते तव भावि । भविष्यतीत्यर्थः ॥
किं वान्यदर्कज विशङ्क विशङ्कटास्य
।
हास्यं चिकीर्षसि यदीश्वरसंश्रयाणाम् ।
तन्मा कृथा न हि तवाश्रितवत्सलोऽसौ
सानुग्रहोऽप्यनुचितं क्षमते महेशः ॥ ७९ ॥
(कालोपालम्भकुलकम्)
विगता शङ्का यस्य स विशङ्कस्तस्यामन्त्रणं हे विशङ्क, तथा विशङ्कटं विकरालमास्य
यस्य स तस्य संबोधनं हे विशङ्कटास्य, अर्कज यम, किं वान्यङ्क्रमः । तवेति शेषः ।
Digitized by Google