This page has been fully proofread once and needs a second look.

१३२
 
हे रविज, मृतमुद्दिश्यावश्यमेवापमार्जनं पञ्चगव्योष्णोदकादिभिर्मृतस्नपनमपमार्ज-

नम् । भूतयागश्चितिवास्तुयागः । निर्याणकर्म । चरमेष्टिः । शिवक्रिया च - 'तत्र

दग्ध्वा शवं मुख्यं कल्पितं वा मृतोद्धृतौ । स्नात्वा दूर्वाक्षतजलैः प्रेते दत्त्वा जलाञ्जलिम् ॥

क्रिया कार्या नदीतीरे तीर्थे वाथ शिवाश्रमे ।' इत्याद्यागमशास्त्रे प्रसिद्धा शिवक्रिया

तदाद्यैः । आदिशब्देन तन्त्रोक्तविधिना दशाहादिकर्म । तैः कर्मभिः परमकारुणिका

अतिदयालवो ये दैशिका गुरवः परार्थे क्लिश्यन्ति क्लेशं भजन्ते ते त्वां श्राद्धदेव इति

स्तुवन्ति । श्राद्धं पितृक्रिया । तदंशभागित्वात्पितृपतित्वाद्वा श्राद्धदेव इति रायमु

कुटीकारः ॥
 
काव्यमाला ।
 

 
देशं ने यन[^१] यत्त्यजति सन्तमसन्तमन्तं
 

ध्वान्तं नयंस्तव पिता समवर्त्यतो ऽर्कः ।

त्वं सत्स्वसत्स्वपि समं प्रहरस्यतोऽपि
 
से

स[^२]
द्यः स्तुवन्ति समवर्तिनमन्तक त्वाम् ॥ ७४ ॥

 
कोपं विधाय तव येन कृतः प्रसाद -
 

स्तत्सेवकेष्वपि चिकीर्षसि यत्प्रसादम् ।

किं[^३] तत्र वर्तयसि मां समवर्त्यतोऽपि
 

त्वं स्तूयसे विषमवर्त्यपि मर्मविद्भिः ॥ ७५ ॥ (युग्मम्)
है

 
हे
अन्तक, तव पिता जनकोऽर्कः । देवैरर्च्यत इत्यर्क: सूर्यः ध्वान्तमन्धकारमन्तं

नयन्सन् यत्सन्तं शोभनं देशमसन्तमशोभनमपि न त्यजति अतः समवर्ती अर्क एव

भवतीत्यर्थः । त्वं तु सत्सु साधुष्वसत्स्वसाधुष्वपि समं प्रहरस्यतः समवर्ती स्तूयसे । त्वं

किंभूतोऽपि । विषमवर्त्यपि साध्वसाधुविचाररहितोऽपि मर्मविद्भिर्भर्मज्ञै रहस्यवेदिभिः

समवर्ती स्तूयस इत्यर्थः । निन्दारूपा स्तुतिः । किं तु येन शंभुना तव प्रसादः कृतः ।

किं कृत्वा । आदौ क्रोधं कृत्वा । तस्य सेवकेष्वपि त्वं प्रसादमनुग्रहं चिकीर्षसि कर्तु
तुं
किमिच्छसि यदि चेन्मां प्रति किं वर्तयसि ॥ युग्मम् ॥

 
भालस्थलानि कलयस्यमलेन्दुमौलि-

पादारविन्दम करन्दसितानि येषाम् ।

त्वं मानवानसि विमानय मा नयज्ञ
 

तन्मानवानवसि रौद्र यदि स्वमौद्रम् ॥ ७६ ॥
 

 
हे नयज्ञ । नयं कार्याकार्यविवेकं जानातीति नयज्ञस्तत्संबोधनं हे नयज्ञ, त्वं मान-

वानसि मानोऽभिमानोऽस्य विद्यते मानवान् तादृगसि । हे रौद्र, स्त्रमौद्रं मुद्रा एव मौ-

 
[^
]. 'देशं नयन्मृशति संतमसं तमन्त' ख.
[^
]. 'सत्यं' स्व.
[^
]. 'संतत्र' ख.
 
Digitized by Google