This page has not been fully proofread.

१३२
 
हे रविज, मृतमुद्दिश्यावश्यमेवापमार्जनं पञ्चगव्योष्णोदकादिभिर्मृतस्नपनमपमार्ज-
नम् । भूतयागश्चितिवास्तुयागः । निर्याणकर्म । चरमेष्टिः । शिवक्रिया च - 'तत्र
दग्ध्वा शवं मुख्यं कल्पितं वा मृतोद्धृतौ । स्नात्वा दूर्वाक्षतजलैः प्रेते दत्त्वा जलाञ्जलिम् ॥
क्रिया कार्या नदीतीरे तीर्थे वाथ शिवाश्रमे ।' इत्याद्यागमशास्त्रे प्रसिद्धा शिवक्रिया
तदाद्यैः । आदिशब्देन तन्त्रोक्तविधिना दशाहादिकर्म । तैः कर्मभिः परमकारुणिका
अतिदयालवो ये दैशिका गुरवः परार्थे क्लिश्यन्ति क्लेशं भजन्ते ते त्वां श्राद्धदेव इति
स्तुवन्ति । श्राद्धं पितृक्रिया । तदंशभागित्वात्पितृपतित्वाद्वा श्राद्धदेव इति रायमु
कुटीकारः ॥
 
काव्यमाला ।
 
देशं ने यत्यजति सन्तमसन्तमन्तं
 
ध्वान्तं नयंस्तव पिता समवर्त्यतो ऽर्कः ।
त्वं सत्स्वसत्स्वपि समं प्रहरस्यतोऽपि
 
सेद्यः स्तुवन्ति समवर्तिनमन्तक त्वाम् ॥ ७४ ॥
कोपं विधाय तव येन कृतः प्रसाद -
 
स्तत्सेवकेष्वपि चिकीर्षसि यत्प्रसादम् ।
किं तत्र वर्तयसि मां समवर्त्यतोऽपि
 
त्वं स्तूयसे विषमवर्त्यपि मर्मविद्भिः ॥ ७५ ॥ (युग्मम्)
है अन्तक, तव पिता जनकोऽर्कः । देवैरर्च्यत इत्यर्क: सूर्यः ध्वान्तमन्धकारमन्तं
नयन्सन् यत्सन्तं शोभनं देशमसन्तमशोभनमपि न त्यजति अतः समवर्ती अर्क एव
भवतीत्यर्थः । त्वं तु सत्सु साधुष्वसत्स्वसाधुष्वपि समं प्रहरस्यतः समवर्ती स्तूयसे । त्वं
किंभूतोऽपि । विषमवर्त्यपि साध्वसाधुविचाररहितोऽपि मर्मविद्भिर्भर्मज्ञ रहस्यवेदिभिः
समवर्ती स्तूयस इत्यर्थः । निन्दारूपा स्तुतिः । किं तु येन शंभुना तव प्रसादः कृतः ।
किं कृत्वा । आदौ क्रोधं कृत्वा । तस्य सेवकेष्वपि त्वं प्रसादमनुग्रहं चिकीर्षसि कर्तु
किमिच्छसि यदि चेन्मां प्रति किं वर्तयसि ॥ युग्मम् ॥
भालस्थलानि कलयस्यमलेन्दुमौलि-
पादारविन्दम करन्दसितानि येषाम् ।
त्वं मानवानसि विमानय मा नयज्ञ
 
तन्मानवानवसि रौद्र यदि स्वमौद्रम् ॥ ७६ ॥
 
हे नयज्ञ । नयं कार्याकार्यविवेकं जानातीति नयज्ञस्तत्संबोधनं हे नयज्ञ, त्वं मान-
वानसि मानोऽभिमानोऽस्य विद्यते मानवान् तादृगसि । हे रौद्र, स्त्रमौद्रं मुद्रा एव मौ-
१. 'देशं नयन्मृशति संतमसं तमन्त' ख. २. 'सत्यं' स्व. ३. 'संतत्र' ख.
 
Digitized by Google