This page has been fully proofread once and needs a second look.

९ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
षां फलम् । हे अन्तक, तत्ते पौरुषं किम् । 'अन्तं करोतीत्यन्तकः । तत्करोतीति

णिजन्तात् ण्वुल्' इति रायमुकुट्याम् । तत्संबोधनम् ॥

 
तत्तथ्यमेव किमकारणकण्टकं त्वां
 

यद्धर्मराज इति काल जनाः स्तुवन्ति ।

लोका न कि जगदमङ्गलमूल कोषं
 

शंसन्ति मङ्गलविहंगम इत्युलूकम् ॥ ७९ ॥

 
"कलति प्राणिनां धर्माधर्माविति कालः । 'कल संख्याने' भौवादिकाद्बहुलवचना-
द्व

द्ध
ञ् ।" इति रायमुकुटीकारः । 'कलयत्यायुः' इति स्वामो । हे काल, जना अकारण-

कण्टकं निष्कारणवैरिणं त्वां यद्धर्मराज इति स्तुवन्ति । धर्मश्चासौ राजा चेति, धर्म-

प्रधानो वा राजा धर्मराजः । टच् । 'धर्मस्य राजा' इति स्वामी । .........
दृष्टं
चैतत् । जना जगदमङ्गलस्य मूलकोषं मूलकोषभूतमुलूकं घूकम् । उलति नेत्राभ्यां

दहत्युलूकः । 'ऊर्ध्वं लोकात्' इति नैरुक्तः । तमुलूकं मङ्गलविहङ्गम इति यच्छंसन्ति

कथयन्ति । भद्रमुखीवद्विपरीतलक्षणया मङ्गल उलूकः । 'स्यान्मङ्गलः कुजे घूके मङ्गलं

कुशले स्मृतम्' इति शाश्वतः ॥
 
दृष्टं
 

 
त्वां जीवितेश इति यत्स्तुवते रुदत्यः
 

कापालिकाः शवदहो गुरवो द्विजाश्च ।

तद्युक्तमन्तक यतः परमः सुहृन्त्त्वं
 

तेषामकारणरिपुस्त्वसुहृत्परेषाम् ॥ ७२ ॥
 

 
हे अन्तक यम, रुदत्यो मृतमुद्दिश्य रोदनं कुर्वत्यः स्त्रियः 'अह्नन् हारी' इति विदेशे

प्रसिद्धाः कश्मीरेषु 'नीरीश्य' इति प्रसिद्धाः । कापालिकाः प्रसिद्धाः । शवं कुणपं दह-

न्तीति शवदहः । गुरव आगमशास्त्रोदितान्त्येष्टिकर्मकुशलाः । द्विजाश्च वेदोक्तपराची (?)-

कर्मनिपुणाः । एते सर्वे यत्त्वां जीवितेश इति जीवितस्येशो जीवितेश इति स्तुवन्ति

तद्
युक्तम् । तत्कुत इत्याह—यतो हेतोस्तेषां रुदत्यादिद्विजान्तानां परमः सुहृत् मित्र-

मसि । अतस्त्वां ते जीवितस्येशो नाथः प्राणप्रिय इति स्तुवन्ति । हे यम, परेषां तेभ्यः

पूर्वोक्तेभ्योऽन्येषामकारणरिपुर्निर्हेतुवैरी असुहृत् असून् हरतीत्यसुहृद्भवसि ते त्वां जीवि-

तस्येशो नेता प्राणहर इति स्तुवन्ति । यश्च सुहृत्स कथमसुहृद्भवतीति विरोधः ।

अन्यार्थत्वे तदभावः ॥
 

 
क्लिश्यन्त्यवश्यमपमार्जनभूतयाग-

निर्याणकर्मचरमेष्टिशिवक्रियाद्यैः ।

ये दैशिकाः परमकारुणिकाः परार्थे
 

त्वां श्राद्धदेव इति ते रविज स्तुवन्ति ॥ ७३ ॥
 
Digitized by Google