This page has not been fully proofread.

९ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
षां फलम् । हे अन्तक, तत्ते पौरुषं किम् । 'अन्तं करोतीत्यन्तकः । तत्करोतीति
णिजन्तात् ण्वुल्' इति रायमुकुट्याम् । तत्संबोधनम् ॥
तत्तथ्यमेव किमकारणकण्टकं त्वां
 
यद्धर्मराज इति काल जनाः स्तुवन्ति ।
लोका न कि जगदमङ्गलमूल कोषं
 
शंसन्ति मङ्गलविहंगम इत्युलूकम् ॥ ७९ ॥
"कलति प्राणिनां धर्माधर्माविति कालः । 'कल संख्याने' भौवादिकाद्बहुलवचना-
द्वञ् ।" इति रायमुकुटीकारः । 'कलयत्यायुः' इति स्वामो । हे काल, जना अकारण-
कण्टकं निष्कारणवैरिणं त्वां यद्धर्मराज इति स्तुवन्ति । धर्मश्चासौ राजा चेति, धर्म-
प्रधानो वा राजा धर्मराजः । टच् । 'धर्मस्य राजा' इति स्वामी । .........
चैतत् । जना जगदमङ्गलस्य मूलकोषं मूलकोषभूतमुलूकं घूकम् । उलति नेत्राभ्यां
दहत्युलूकः । 'ऊर्ध्व लोकात्' इति नैरुक्तः । तमुलूकं मङ्गलविहङ्गम इति यच्छंसन्ति
कथयन्ति । भद्रमुखीवद्विपरीतलक्षणया मङ्गल उलूकः । 'स्यान्मङ्गलः कुजे घूके मङ्गलं
कुशले स्मृतम्' इति शाश्वतः ॥
 
दृष्टं
 
त्वां जीवितेश इति यत्स्तुवते रुदत्यः
 
कापालिकाः शवदहो गुरवो द्विजाश्च ।
तद्युक्तमन्तक यतः परमः सुहृन्त्वं
 
तेषामकारणरिपुस्त्वसुहृत्परेषाम् ॥ ७२ ॥
 
हे अन्तक यम, रुदत्यो मृतमुद्दिश्य रोदनं कुर्वत्यः स्त्रियः 'अह्नन् हारी' इति विदेशे
प्रसिद्धाः कश्मीरेषु 'नीरीश्य' इति प्रसिद्धाः । कापालिकाः प्रसिद्धाः । शवं कुणपं दह-
न्तीति शवदहः । गुरव आगमशास्त्रोदितान्त्येष्टिकर्मकुशलाः । द्विजाश्च वेदोक्तपराची (?)-
कर्मनिपुणाः । एते सर्वे यत्त्वां जीवितेश इति जीवितस्येशो जीवितेश इति स्तुवन्ति
तयुक्तम् । तत्कुत इत्याह—यतो हेतोस्तेषां रुदत्यादिद्विजान्तानां परमः सुहृत् मित्र-
मसि । अतस्त्वां ते जीवितस्येशो नाथः प्राणप्रिय इति स्तुवन्ति । हे यम, परेषां तेभ्यः
पूर्वोक्तेभ्योऽन्येषामकारणरिपुर्निर्हेतुवैरी असुहृत् असून् हरतीत्यसुहृद्भवसि ते त्वां जीवि-
तस्येशो नेता प्राणहर इति स्तुवन्ति । यश्च सुहृत्स कथमसुहृद्भवतीति विरोधः ।
अन्यार्थत्वे तदभावः ॥
 
क्लिश्यन्त्यवश्यमपमार्जनभूतयाग-
निर्याणकर्मचरमेष्टिशिवक्रियाद्यैः ।
ये दैशिकाः परमकारुणिकाः परार्थे
 
त्वां श्राद्धदेव इति ते रविज स्तुवन्ति ॥ ७३ ॥
 
Digitized by Google