This page has been fully proofread once and needs a second look.

१३०
 
काव्यमाला ।
 
षधरः सर्प एवायुधं पाशरूपं यस्य स तस्यामन्त्रणम् । हे काल, निर्निरोधो निर्यन्त्रणो

यः क्रोधस्तस्य प्रबोधस्तत्र पटहं पटहरूपं हरहुंकृतं मृत्युंजयहुंकृतं ते किं विस्मृतम् ।

'आनकः पटहोऽस्त्री स्यात्' इत्यमरः ॥
 

 
कीनाश बालिश निरङ्कुश निर्विमर्श
 

निस्त्रिश निष्करुण निःशरणेषु चेत्त्वम् ।

निष्कारणं निरनुरोध करोषि रोषं
 
तल्कि

तत्किं
चिकीर्षसि महेश्वरसंश्रिषु ॥ ६८ ॥
 

 
हे कीनाश, वाबालिश मूढ, निरङ्कुश निर्यन्त्रण, निर्विमर्श विगतकार्याकार्यविवेक,
निस्ब्रि

निस्त्रिं
श निर्मर्याद, निष्करुण निर्दय, हे काल, त्वं चेन्निःशरणेष्वशरणेष्वगतिकेषु । हे

निरनुरोध । निर्गतः कस्याप्यनुरोधो यस्य तस्यामन्त्रणम् । तादृशेषु चेद्रोषं करोषि तर्हि

महेश्वरसंश्रितेषु नाथोकृतशंकरेषु तरिकत्किं चिकीर्षसि कर्तुमिच्छसि ॥
 

 
कुर्वन्विरोधमनिरोधमबान्धवेषु
 

धत्से मुधा यम समुद्धतकंधरत्वम् ।

तीव्रापराधविधुरेष्वपि साधवो हि
 

बाधां विधातुमधमेष्वपि न क्षमन्ते ॥ ६९ ॥
 

 
यमयति जनम्, यमलजातत्वाद्वा यमस्तत्संबोधनं हे यम, अबान्धवेष्वाश्वासंकवि-

नाकृतेषु विरोधं कुर्वन् समुद्धतकंरत्वं स्तब्धग्रीवत्वं त्वं मुधा व्यर्थं धत्से । अनाथे-

ष्वपि लोकेषु दयालवः प्रभवो यतः सन्तीत्यर्थः । दृष्टं चैतत् । हि निश्चये, यस्मात्का.

रणाद्वा । तीव्रापराधविधुरेषु भीतेष्वपि अधमेष्वपि पामरजनेष्वपि बाधां पीडां स्वमु-

खेन परमुखेन वा विधातुं कर्तुतुं न क्षमन्ते न सहन्ते । तथा च चाणक्य: – 'उपका-

रिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुरिति

कथ्यते ॥" इति ॥
 

 
यत्प्राणिषु प्रभवसि प्रसभं प्रतु
 
र्तुं
प्राप्य प्रभोः प्रमथनाथपितुः प्रसादम् ।
तत्प्रा

तत्प्राक्
कृतस्य दुरितस्य दुरुत्तरस्य
 

तेषां फलं तव किमन्तक पौरुषं तत् ॥ ७० ॥
 

 
रे काल, प्रमथनाथपितुः प्रमथानां गणानां नाथो गणपतिस्तस्य पिता जनकस्तस्मा-

न्महेश्वरात्प्रभोः प्रसादं प्राप्य यत्त्वं प्राणिषु जन्तुषु प्रसभं बलात्प्रतुहर्तुं प्रभवसि तत्तेषां

प्राणिनां दुरुत्तरस्य दुस्तरस्य प्राक्कृतस्य दुरितस्य फलम् । प्राक्तनदुरितपरिपाकेन तत्ते-
Digitized by Google