This page has not been fully proofread.

१३०
 
काव्यमाला ।
 
षधरः सर्प एवायुधं पाशरूपं यस्य स तस्यामन्त्रणम् । हे काल, निर्निरोधो निर्यन्त्रणो
यः क्रोधस्तस्य प्रबोधस्तत्र पटहं पटहरूपं हरहुंकृतं मृत्युंजयहुंकृतं ते किं विस्मृतम् ।
'आनकः पटहोऽस्त्री स्यात्' इत्यमरः ॥
 
कीनाश बालिश निरङ्कुश निर्विमर्श
 
निस्त्रिश निष्करुण निःशरणेषु चेत्त्वम् ।
निष्कारणं निरनुरोध करोषि रोषं
 
तल्कि चिकीर्षसि महेश्वरसंश्रिषु ॥ ६८ ॥
 
हे कीनाश, वालिश मूढ, निरङ्कुश निर्यन्त्रण, निर्विमर्श विगतकार्याकार्यविवेक,
निस्ब्रिश निर्मर्याद, निष्करुण निर्दय, हे काल, त्वं चेन्निःशरणेष्वशरणेष्वगतिकेषु । हे
निरनुरोध । निर्गतः कस्याप्यनुरोधो यस्य तस्यामन्त्रणम् । तादृशेषु चेद्रोषं करोषि तर्हि
महेश्वरसंश्रितेषु नाथोकृतशंकरेषु तरिक चिकीर्षसि कर्तुमिच्छसि ॥
 
कुर्वन्विरोधमनिरोधमबान्धवेषु
 
धत्से मुधा यम समुद्धतकंधरत्वम् ।
तीव्रापराधविधुरेष्वपि साधवो हि
 
बाधां विधातुमधमेष्वपि न क्षमन्ते ॥ ६९ ॥
 
यमयति जनम्, यमलजातत्वाद्वा यमस्तत्संबोधनं हे यम, अबान्धवेष्वाश्वासंकवि-
नाकृतेषु विरोधं कुर्वन् समुद्धतकंघरत्वं स्तब्धग्रीवत्वं त्वं मुधा व्यर्थ धत्से । अनाथे-
ष्वपि लोकेषु दयालवः प्रभवो यतः सन्तीत्यर्थः । दृष्टं चैतत् । हि निश्चये, यस्मात्का.
रणाद्वा । तीव्रापराधविधुरेषु भीतेष्वपि अधमेष्वपि पामरजनेष्वपि बाधां पीडां स्वमु-
खेन परमुखेन वा विधातुं कर्तु न क्षमन्ते न सहन्ते । तथा च चाणक्य: – 'उपका-
रिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुरिति
कथ्यते ॥" इति ॥
 
यत्प्राणिषु प्रभवसि प्रसभं महतु
 
प्राप्य प्रभोः प्रमथनाथपितुः प्रसादम् ।
तत्प्राकृतस्य दुरितस्य दुरुत्तरस्य
 
तेषां फलं तव किमन्तक पौरुषं तत् ॥ ७० ॥
 
रे काल, प्रमथनाथपितुः प्रमथानां गणानां नाथो गणपतिस्तस्य पिता जनकस्तस्मा-
न्महेश्वरात्प्रभोः प्रसादं प्राप्य यत्त्वं प्राणिषु जन्तुषु प्रसभं बलात्प्रतु प्रभवसि तत्तेषां
प्राणिनां दुरुत्तरस्य दुस्तरस्य प्राकृतस्य दुरितस्य फलम् । प्राक्तनदुरितपरिपाकेन तत्ते-
Digitized by Google