This page has not been fully proofread.

९ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
रे दुर्विनीत खल काल पुरा पुरारे-
र्यामाप्तवानसि निजाविनयप्रशास्तिम् ।
श्रुत्वैव तां धृतिमतामपि कम्पमेति
चेतः कथं पुनरुपक्रमसे तदेव ॥ ६९ ॥
 
रे इति हीनसंबोधने । रे दुविनीत दुविनययुक्त, रे खल दुर्जन अधम काल, पुरारे-
मृत्युंजयसकाशात् पुरा निजाविनयस्य शंकरैककिंकरविभीषिकारूपस्य प्रशास्तिशा-
सनं दाहरूपमाप्तवानसि । तां तव प्रशास्ति श्रुत्वैव धृतिमतां सधैर्याणामपि चेतः क-
म्पमेति । रे काल, कथं पुनस्तदेव निजदुर्विनीतत्वं प्रक्रमसे आरभसे ॥
पाणौ पिधेहि पवनाशनपाशमाशु
 
नास्तीह ते पुरुषपाश रुषोऽवकाशः ।
निःसंकरेषु शरणीकृतशंकरेषु
 
रे काल कातरभयंकर किं करोषि ॥ ६६ ॥
 
१२९
 
कुत्सितः पुरुषः पुरुषपाशस्तस्य संबोधनं हे पुरुषपाश । 'याप्ये पाशप्' । 'कुपुरुष'
इत्यपि पाठो दृश्यते (?) । कुत्सितः पुरुषस्तस्यामन्त्रणं हे कुपुरुष, तं पाणी हस्ते पव-
नाशनपाशं सर्पपाशमाशु शीघ्रं पिधेहि । इह विषये तव रुषोऽवकाशः स्थानं न भ
वति । हे कातरभयंकर । कातरेषु भयंकरस्तस्यामन्त्रणम् । रे इत्यधमामन्त्रणे
निःसंकरेषु संकरान्निष्क्रान्तेषु तथा शरणीकृतशंकरेषु किं करोषि । न किंचित्करोषी-
त्यर्थः । एतद्वृत्तार्थानुसारेण ममापि वृत्तद्वयं यथा - 'अन्यत्र प्रसरति ते कृतान्त श-
क्तिर्नैतेषु क्वचिदपि शंभुकिंकरेषु । एकस्य प्रणयनतस्य पालनार्थ निर्दग्धस्त्वमसि
पुरा पुरारिणा यत् ॥', 'क्रोधोद्धुरो जलधरध्वनिधीरघोरहुंकारतर्जितसमस्तजनो निता-
न्तम् । शर्वाङ्गिभक्तिकवचेन समानृतस्य किं मे करिष्यति यमोऽपि स दण्डहस्तः ॥'
व्यापारय स्वपुरुषं पुरुषं परेषु
 
मा रोषमङ्करय शंकरकिंकराणाम् ।
किं विस्मृतं विषधरायुध निर्निरोध-
क्रोधप्रबोधपटहं हरहुकृतं ते ॥ ६७ ॥
 
हे कीनाश, स्वपुरुषं स्वानुचरं स्वदूतं परेषु शंकरकिंकरेभ्योऽन्येषु व्यापारय प्रे-
षय । त्वं शंकरकिंकराणां शंभुसेवकानां रोषं मा अनुरयोत्पादय । हे विषधरायुध । वि-
१. 'निजाविनयस्य शास्तिम्' ख. २. 'किं विस्मृतोऽसि भुजगायुध' स्त्र.
३. 'तत्' ख.
 
Digitized by Google