This page has been fully proofread once and needs a second look.

१२८
 
काव्यमाला ।
 
सत्यम् । सतोषं सहर्षम् । अपगता दोषा यस्य तत् । अविद्यमानो रोषेण पोषश्च यस्य

तत् । वयं किंभूताः । संघित्सवस्त्वया सह संधि कर्तुमभीप्सवः ॥

 
अन्यत्र दर्शय निरङ्कुश हुंकृतानि

कीनाश नाशय दुराशय माभिमानम् ।

नाथी कृतेन्दुमुकुटानपि नाम मन्ये
 

निर्भर्त्सयिष्यसि हतैव तवेयमाशा ॥ ६३ ॥
 

 
हे निरंकुश निर्निरोध, कीनाश कृतान्त । कुत्सितं नाशयति कीनाशस्तत्संबोधनम्,

कीनाशः क्षुद्रस्तत्संबोधनं च । 'कृतान्ते पुंसि कीनाशः क्षुद्रकार्षिकयोस्त्रिषु' इत्यमरः ।

हे दुराशय, दुष्ट आशयो यस्य तत्संबोधनम् । त्वमन्यत्र जने हुंकृतानि निर्भर्त्सनहुंका-

रान्दर्शय । त्वमभिमानं निजाभिमानं मा नाशय । एतदेवाह - हे क्षुद्र कृतान्त । नाम

निश्चये संभावनायां वा । त्वं कर्ता किं मन्ये मन्यसे । अहं कर्ता नाथीकृतेन्दुमुकुटान्,

नाथीकृतश्रीशिवभट्टारकानपि निर्भर्त्सयिष्यसि निर्भर्त्सयिष्यामि तवेयमाशा हतैव निन्दि-

तैव । अत्र मन्ये निर्भर्त्सयिष्यसीत्यत्र प्रहासे पुरुषव्यत्ययस्य व्यञ्जकत्वम् । यथा— रेरे

चञ्चललोचनाश्चितरुचे चेतः प्रमुच्य स्थिरप्रेमाणं महिमानमेणनयनामालोक्य किं नृ-

त्यास । किं मन्ये विहरिष्यसे बत हतां मुश्चान्तराशामिमामेषा कण्ठतटे कृता खलु

शिला संसारवारां निधौ ॥' अत्र पुरुषव्यत्ययस्य पुरुषः प्रथममध्यमोत्तमरूपः । रेरे

इति । स्थिरं प्रेम यत्र तं महिमानं प्रमुच्येत्यन्वयः । चञ्चलाभ्यां लोचनाभ्यामाविष्कृता

रुचिरभिलाषो यत्र तदिति चेतोविशेषणम् । लोचनाभ्यामाविष्कृत

रुचित्वाच्चेतसो लो-

चनचेतसोर्द्वयोरपि निन्द्यत्वम् । हतां निन्दिताम् । कि मन्यसे विहरिष्यामीति मध्यमो-

त्तमपुरुषयोरुत्तममध्यम पुरुषव्यत्ययः । तथा चानुशासनं सूत्रम् – 'प्रहासे च मन्योपपदे

मन्यतेरुत्तम एकवच्च ।' इति । रे चेतः, किं त्वमेवं मन्यसे यदहमनया सह विहरिष्या-

मीति पुरुषव्यत्ययः । एतद्वृत्तानुसारेण ममापीदं वृत्तमेकम् । यथा - 'नित्यं दुर्ललितो-

ऽसि दीनदमने त्वं चेत्तथापि ध्रुवं रे रे कालकराल मुश्च विमते व्यर्थोथां दुराशामिमाम् ।

किं मन्ये प्रहरिष्यसे जनमिवानाथं बतैनं हठात्ख्यातं शंकरकिंकरं त्रिभुवने प्रेमैकपात्रं

विभोः ॥' अत्रापि प्रहासे अहं प्रहरिष्यामीति पुरुषव्यत्ययस्य व्यञ्जकत्वं ज्ञेयम् ॥

 
येनेश्वरेण महता विहितागसस्ते
 

कृत्वापि शासनमकारि पुनः प्रसादः ।

तत्सेवका वयमतस्तव विद्विषोऽपि
 

यद्ब्रूमहे हितमदो मनुषे रुषेति ॥ ६४ ॥
 

 
रे काल, विहितागसः कृतापराधस्थायापि तव शासनं दाहरूपं कृत्वापि महता ईश्वरेण

महेश्वरेण दयालुना तव पुनः प्रसादः सजीवीकरणरूपो विहितस्तस्यैव सेवका दासा

वयम् । अतो हेतोस्तव विद्विषोऽपि शत्रवोऽपि वयं यद्धितं ब्रूमहे तत्त्वं रुषेति ईदृग्वचनं

रुषैव ममैते वदन्तीति मनुषे जानीषे ॥
 
Digitized by Google