2023-02-23 21:27:20 by ambuda-bot
This page has not been fully proofread.
१२८
काव्यमाला ।
सत्यम् । सतोषं सहर्षम् । अपगता दोषा यस्य तत् । अविद्यमानो रोषेण पोषश्च यस्य
तत् । वयं किंभूताः । संघित्सवस्त्वया सह संधि कर्तुमभीप्सवः ॥
अन्यत्र दर्शय निरङ्कुश हुंकृतानि
कीनाश नाशय दुराशय माभिमानम् ।
नाथी कृतेन्दुमुकुटानपि नाम मन्ये
निर्भर्त्सयिष्यसि हतैव तवेयमाशा ॥ ६३ ॥
हे निरंकुश निर्निरोध, कीनाश कृतान्त । कुत्सितं नाशयति कीनाशस्तत्संबोधनम्,
कीनाशः क्षुद्रस्तत्संबोधनं च । 'कृतान्ते पुंसि कीनाशः क्षुद्रकार्षिकयोस्त्रिषु' इत्यमरः ।
हे दुराशय, दुष्ट आशयो यस्य तत्संबोधनम् । त्वमन्यत्र जने हुंकृतानि निर्भर्त्सनहुंका-
रान्दर्शय । त्वमभिमानं निजाभिमानं मा नाशय । एतदेवाह - हे क्षुद्र कृतान्त । नाम
निश्चये संभावनायां वा । त्वं कर्ता किं मन्ये मन्यसे । अहं कर्ता नाथीकृतेन्दुमुकुटान्,
नाथीकृतश्रीशिवभट्टारकानपि निर्भर्त्सयिष्यसि निर्भर्त्सयिष्यामि तवेयमाशा हतैव निन्दि-
तैव । अत्र मन्ये निर्भर्त्सयिष्यसीत्यत्र प्रहासे पुरुषव्यत्ययस्य व्यञ्जकत्वम् । यथा— रेरे
चञ्चललोचनाश्चितरुचे चेतः प्रमुच्य स्थिरप्रेमाणं महिमानमेणनयनामालोक्य किं नृ-
त्यास । किं मन्ये विहरिष्यसे बत हतां मुश्चान्तराशामिमामेषा कण्ठतटे कृता खलु
शिला संसारवारां निधौ ॥' अत्र पुरुषव्यत्ययस्य पुरुषः प्रथममध्यमोत्तमरूपः । रेरे
इति । स्थिरं प्रेम यत्र तं महिमानं प्रमुच्येत्यन्वयः । चञ्चलाभ्यां लोचनाभ्यामाविष्कृता
रुचिरभिलाषो यत्र तदिति चेतोविशेषणम् । लोचनाभ्यामाविष्कृत
रुचित्वाच्चेतसो लो-
चनचेतसोर्द्वयोरपि निन्द्यत्वम् । हतां निन्दिताम् । कि मन्यसे विहरिष्यामीति मध्यमो-
त्तमपुरुषयोरुत्तममध्यम पुरुषव्यत्ययः । तथा चानुशासनं सूत्रम् – 'प्रहासे च मन्योपपदे
मन्यतेरुत्तम एकवच ।' इति । रे चेतः, किं त्वमेवं मन्यसे यदहमनया सह विहरिष्या-
मीति पुरुषव्यत्ययः । एतद्वृत्तानुसारेण ममापीदं वृत्तमेकम् । यथा - 'नित्यं दुर्ललितो-
ऽसि दीनदमने त्वं चेत्तथापि ध्रुवं रे रे कालकराल मुश्च विमते व्यर्थो दुराशामिमाम् ।
किं मन्ये प्रहरिष्यसे जनमिवानाथं बतैनं हठात्ख्यातं शंकरकिंकरं त्रिभुवने प्रेमैकपात्रं
विभोः ॥' अत्रापि प्रहासे अहं प्रहरिष्यामीति पुरुषव्यत्ययस्य व्यञ्जकत्वं ज्ञेयम् ॥
येनेश्वरेण महता विहितागसस्ते
कृत्वापि शासनमकारि पुनः प्रसादः ।
तत्सेवका वयमतस्तव विद्विषोऽपि
यद्रूमहे हितमदो मनुषे रुषेति ॥ ६४ ॥
रे काल, विहितागसः कृतापराधस्थापि तव शासनं दाहरूपं कृत्वापि महता ईश्वरेण
महेश्वरेण दयालुना तव पुनः प्रसादः सजीवीकरणरूपो विहितस्तस्यैव सेवका दासा
वयम् । अतो हेतोस्तव विद्विषोऽपि शत्रवोऽपि वयं यद्धितं ब्रूमहे तत्त्वं रुषेति ईदृग्वचनं
रुषैव ममैते वदन्तीति मनुषे जानीषे ॥
Digitized by Google