This page has been fully proofread once and needs a second look.

९ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
पश्यन्तमन्धमभिमानिनमस्तमानं

विस्तीर्णकर्णमपि या बधिरं करोति ।

सार्तिर्न नर्तयति किं कुनृणामिव श्री-
-
 

स्तस्मात्क्षमस्व भगवन्नतिलङ्घनानि ॥ ६० ॥
 

 
हे भगवन् महेश्वर, या आर्तिः रिक्तहस्ततया धनिनं प्रति वीप्सया याच्ञापर्याया प

श्यन्तं वीक्षमाणमपि सम्यक् । पुरुषमिति शेषः । पुरुषमन्धमदृशं करोति । अन्धीक

रोतीत्यर्थः । तथा अभिमानिनमपि साहंकारमपि गतमानं करोति तथा विस्तीर्णकर्ण-

मपि सम्यक्श्रवणसमाहितकर्णमपि बधिरमेडं करोति । सा आतिः कुनृणां कुपुरुषाणा

मिव श्रीर्यथा तं कुपुरुषं किं न नर्तयति । तथा मामपि किं न नर्तयतीत्यर्थः । हे भग-

वन्, तस्माद्धेतोरतिलङ्घनानि स्वामिनिवेदनायुक्तासंबद्धप्रलापरूपाणि क्षमस्व ॥

अथ कतिपयवृत्तैः कालोपालम्भकुलकमारभमाण आह -

 
उच्छृङ्खलं खलमलङ्घ्यबलं ज्वलन्त -

मन्तः कृतान्तमविकल्पमनल्पदर्पम् ।

आशङ्क्य शंकरचरित्रपवित्रचित्र-
१२७
 

सूक्तिष्वपि स्थिररुषं प्रति बोधयामः ॥ ६१ ॥
 

 
वयं कर्तारः कृ
 
तान्तं रविजं प्रति बोधयामः । यथा उचितकर्मकृत्स भवति तथा तं

प्रति बोधयामः । किं कृत्वा । तमेव कृतान्तं स्थिररुषं दीर्घरोषमाशङ्क् विज्ञाय । का-

स्वपि । शंकरस्य श्रीशंभोश्चरितानि त्रिपुरदाहादीनि तैः पवित्राश्चित्रा रम्या याः सूक्तयः

प्रौढोक्तयस्तास्वपि । पुनः किंभूतम् । उच्छृङ्खलमनियन्त्रणम् । तथा खलं खं शून्यं लाति

खलः, खलति चलति वा निग्रहाय खलः पिशुनस्तम् । तथा अलङ्घ्यबलम् । त्रिजगति

के नाप्यलङ्घनीयसामर्थ्यम् । तथा अन्तः क्रोधाग्निना ज्वलन्तम् । तथा अविकल्पं सम-

वर्तित्वान्निर्विकल्पम् । तथा अनल्पदर्पं महादर्पयुक्तम् ॥

 
प्रत्यग्र कर्कशमशल्कमुदर्क पथ्यं
 

तथ्यं सतोषमपदोषमरोषपोषम् ।

संघिधित्सवस्तव कृतान्त हितं मितं च
 
यहू

यद्द्ब्रू
महे तदवधारय सावधानः ॥ ६२ ॥
 

 
हे कृतान्त, सह अवधानेन एकाग्रतया वर्तते यः स तादृक् त्वं तदवधारय । अव-

धारणं निश्चयः । तत्किमित्याह - तव हितं तथा मितं स्वल्पमपि बर्थ यहूह्वर्थं यद्द्ब्रूमहे । पुनः

किंभूतम् । प्रत्यप्ग्रकर्कशं प्रत्यग्रे आमुखे कर्कशं कटु । पर्यवसाने मधुरमित्यर्थः । तथा अ

शल्कं निर्दोषमकलुषम् । तथा उदर्के आगामि फले पथ्यं परिणामहितम् । तथा तथ्यं
 
Digitized by Google