This page has not been fully proofread.

९ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
पश्यन्तमन्धमभिमानिनमस्तमानं
विस्तीर्णकर्णमपि या बधिरं करोति ।
सार्तिर्न नर्तयति किं कुनृणामिव श्री-
-
 
स्तस्मात्क्षमस्व भगवन्नतिलङ्घनानि ॥ ६० ॥
 
हे भगवन् महेश्वर, या आर्तिः रिक्तहस्ततया धनिनं प्रति वीप्सया याच्आपर्याया प
श्यन्तं वीक्षमाणमपि सम्यक् । पुरुषमिति शेषः । पुरुषमन्धमदृशं करोति । अन्धीक
रोतीत्यर्थः । तथा अभिमानिनमपि साहंकारमपि गतमानं करोति तथा विस्तीर्णकर्ण-
मपि सम्यक्श्रवणसमाहितकर्णमपि बधिरमेडं करोति । सा आतिः कुनृणां कुपुरुषाणा
मिव श्रीर्यथा तं कुपुरुषं किं न नर्तयति । तथा मामपि किं न नर्तयतीत्यर्थः । हे भग-
वन्, तस्माद्धेतोरतिलङ्घनानि स्वामिनिवेदनायुक्तासंबद्धप्रलापरूपाणि क्षमस्व ॥
अथ कतिपयवृत्तैः कालोपालम्भकुलकमारभमाण आह -
उच्छृङ्खलं खलमलङ्घयबलं ज्वलन्त -
मन्तः कृतान्तमविकल्पमनल्पदर्पम् ।
आशङ्कय शंकरचरित्रपवित्रचित्र-
१२७
 
सूतिष्वपि स्थिररुषं प्रति बोधयामः ॥ ६१ ॥
 
वयं कर्तारः कृत
 
रविजं प्रति बोधयामः । यथा उचितकर्मकृत्स भवति तथा तं
प्रति बोधयामः । किं कृत्वा । तमेव कृतान्तं स्थिररुषं दीर्घरोषमाशङ्क्ष विज्ञाय । का-
स्वपि । शंकरस्य श्रीशंभोश्चरितानि त्रिपुरदाहादीनि तैः पवित्राश्चित्रा रम्या याः सूक्तयः
प्रौढोक्तयस्तास्वपि । पुनः किंभूतम् । उच्छृङ्खलमनियन्त्रणम् । तथा खलं खं शून्यं लाति
खलः, खलति चलति वा निग्रहाय खलः पिशुनस्तम् । तथा अलङ्घयबलम् । त्रिजगति
के नाप्यलङ्घनीयसामर्थ्यम् । तथा अन्तः क्रोधाग्निना ज्वलन्तम् । तथा अविकल्पं सम-
वर्तित्वान्निर्विकल्पम् । तथा अनल्पदर्प महादर्पयुक्तम् ॥
प्रत्यग्र कर्कशमशल्कमुदर्क पथ्यं
 
तथ्यं सतोषमपदोषमरोषपोषम् ।
संघित्सवस्तव कृतान्त हितं मितं च
 
यहूमहे तदवधारय सावधानः ॥ ६२ ॥
 
हे कृतान्त, सह अवधानेन एकाग्रतया वर्तते यः स तादृक् त्वं तदवधारय । अव-
धारणं निश्चयः । तत्किमित्याह - तव हितं तथा मितं स्वल्पमपि बर्थ यहूमहे । पुनः
किंभूतम् । प्रत्यप्रकर्कशं प्रत्यग्रे आमुखे कर्कशं कटु । पर्यवसाने मधुरमित्यर्थः । तथा अ
शल्कं निर्दोषमकलुषम् । तथा उदर्के आगामि फले पथ्यं परिणामहितम् । तथा तथ्यं
 
Digitized by Google