This page has been fully proofread once and needs a second look.

१२६
 
काव्यमाला ।
 
तस्माद्भयंकरमदः फणिकर्णपूर-

हेवाकदुर्व्यसनमस्तनयं विहाय ।

स्वामिन्निमाः श्रवणयोः प्रणयोपचार-

गर्भा गिरश्चतुरमाभरणीकुरुष्व ॥ १८ ॥
 
-
 

 
एतेनेति युग्मम् । हे श्रीशिव, एते भुजंगा वासुकिप्रभृतयः अर्थात्तवातिप्रियाः नि-

बिडो दृढो यो बन्धो प्ग्रन्थिस्तं विबिभ्रतीति । तथा एते भुजंगा: शेषादयो वक्रिम्णः कौ-

टिल्यस्य विलासस्तस्य विकासस्तं भजन्त इति तादृशाः किं वा न भवन्ति । भवन्त्येवे-

त्यर्थः। किं तु पक्षान्तरे। एते भुजंगा मम भक्तिरसोयुक्तचेतसः सूक्तामृतानुकरणे सूक्तामृ-

तोपमायां कथमुत्सहन्ते कथं प्रभवन्ति । अत्र हेतुमाह - यत एते भुजंगा: क्रमात्पद-

न्यासादपचिता हीनाः । तथा पदगुम्फेन चरणरचनया वर्जिताः । सर्पाणां गूढपाद-

त्वात् । एतद्विशेषणद्वयविशिष्टत्वं यतो मदीयसूक्तामृतस्य नास्ति अतो हेतोर्मदीयसू-

क्तामृतस्योत्कर्ष इत्यर्थः । तथाहि — अत्र निबिडेति विशेषण द्वयेन भुजंगसूक्तामृतयोः

समत्वम् । तथा मम सूक्तामृतमपि निबिडो यो बन्धो रचनाभेदस्तं बिभर्तीति निवि-

डबन्धभृत् । तथा वक्रिमविलासभागपि भवति । वक्रिमविलासो वक्रिमभणितिः प्रसि-

द्धप्रस्थानव्यतिरेकिणी समुज्ज्वला उक्तिः । विलासस्य विकासो विस्तरस्तं भजतीति

तादृग्भवति सूक्तामृतमपि मम । किं त्वित्यनेन मदीयसूक्तामृतमपि क्रमादुद्दिष्टक्रमादप-

चितं हीनं न भवति । किं तु सक्रममेवेत्यर्थः । दुष्क्रमस्यार्थस्य दुष्टत्वात् । तथा मदीयसू-

क्तामृतं पदगुम्फेन पदबन्धेन हीनं न भवति । यथोचितपदबन्धमित्यर्थः । अतश्च भुजं-

गा मम सूक्तामृतानुकरणे कथं क्षमन्त इत्यभिप्रायः ॥ हे स्वामिन् अस्तस्त्यक्तो नयो

यत्र तत् । क्रियाविशेषणमेतत् । अदः भयंकरं फणिनः सर्पा एव कर्णपूरास्तेषु हेवाक

एव दुष्टं व्यसनं विहाय त्यक्त्वा प्रणयो याच्याञा उपचारः पूजा तौ गर्भे यासां ता इमा

मम गिरश्चतुरं शीघ्रमाभरणीकुरुष्व । आभरणानि कर्णाभरणानि संपादयेत्यर्थः ॥ युग्मम् ॥

 
स्वामिन्नबान्धवतया बत या तवेयं
 

वाणी मया निजगदे जगदेकबन्धोः ।

तामन्तकान्तकर शंकर शंसतो मे
 

कर्णे कुरुष्व करुणां करुणाम्बुराशे ॥ १९ ॥
 
>
 

 
हे अन्तकान्तकर मृत्युंजय, करुणाम्बुराशे दयासमुद्र, शंकर, शंसतः स्तुवतो मे

मम करुणां दीनां तां वाणीं कर्णे कुरुष्व । तां वाणीं किमित्याह - हे स्वामिन्, बध्नाति

स्नेहपाशेन बन्धुः । जगतामेकबन्धोस्तवाप्ग्रे । बत अनुकम्पायाम् । अबान्धवतया आ

श्वासनकारणबन्धुराहित्येनोपलक्षितेन मया इयं या वाणी निजगदे उक्ता ॥
 
Digitized by Google