This page has been fully proofread once and needs a second look.

९ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
१२५
 
समाप्तं संपादितं कृत्यं संसारोत्तरणोपायरूपं यैस्तान् अशरणान् शरणरहितान् । अर्था

दस्मान् अवश्यं निश्चितमविशङ्कमकस्मादेत्यागत्य धीवरः कैवर्त इव तिमीन्मत्स्यान्मृ

त्युर्हठेन क्षणायावत्रद्यावन्न हरते है स्वामिन्निन्दुधर चन्द्रमौले, प्रसीद प्रसन्नो भव नोऽस्माकं

करुणां कृपां कुरु । तथा अमन्दं महान्तमाक्रन्दं विलापं मर्षय शृणु। मां मा विहासीः

मा त्याक्षीः । दधाति मत्स्यानिति धीवरः । 'धीवरपीवर-' इत्यादिना ष्वरच् । कैवर्ते

दाशधीवरौ' इत्यमरः । पुनरपि दीनमाक्रन्दं करोति – हे स्वामिन्, त्वमेव ब्रूहि वद

कृपासमुद्रेण त्वया त्यक्ताः कमपरं शरणं व्रजामः ॥ युग्मम् ॥

 
जातस्य मृत्युरिति चेत्स न लङ्घितः किं

श्वेतेन शीतकरशेखर नन्दिना च ।

ताभ्यामसौ यदि जितो विपुलैस्तपोभि-

रस्माकमल्पतपसां त्वनिवार्य एव ॥ ५५ ॥

 
तर्ह्यर्चनान्तसमये तव पादपीठ-

मालिङ्ग्य निर्भरमभङ्गुरभक्तिभाजः ।

निद्रानिभेन विनिमीलितलोचनस्य
 

प्राणाः प्रयान्तु मम नाथ तव प्रसादात् ॥ ५६ ॥ (युग्मम्)

 
हे शीतकरशेखर चन्द्रमौले, 'जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । तस्मा-

दपरिहार्येऽर्थे नानुशोचितुमर्हसि ॥ इति पुराणोक्तेर्जातस्योत्पन्नस्य जन्तोर्मृत्युरिति चे-

द्वदन्ति सन्तस्तर्हि श्वेतेन श्वेताख्यनृपतिना नन्दिना च शैलादिना गणवरेण स मृत्युः

किं न लविङ्घितो नोत्तीर्णः किम् । ताभ्यां श्वेतनन्दिभ्यामसौ मृत्युर्विपुलैर्विस्तीर्णैस्तपो-

भिः कृच्छ्रचान्द्रायणव्रतविशेषैर्यदि जितः । तु पक्षान्तरे । अल्पतपसामस्माकं कर्तॄणा-

मसौ मृत्युस्तर्ह्निवार्य एव । 'तव्यानीय ….काराणां षष्ठी कर्मणि वा स्मृता ॥' इति

कर्तरि षष्ठी ॥
 

 
पुनरपि श्रीशिवभक्त्युत्कर्षेण निजमात्मानं समर्थयति-तर्हीति । यदि मृत्युर्दुर्निवारस्त

र्
हि हे नाथ मृत्युंजय, अर्चनान्तसमयेऽभङ्गुरभक्तिभाजो गाढतरभक्तियुतस्य तवैव पादपीठं

निर्भरं दृढमालिङ्गय निद्राव्याजेन विशेषेण निमीलिते लोचने येन स तादृशस्य मम भ

वत्प्रसादेन प्राणाः प्रयान्तु निर्गच्छन्तु ॥
 

 
एते न किं निबिडबन्धभृतो भुजंगाः
 

किं वा न वक्रिमविलासविकासभाजः ।

किं तु क्रमादपचिताः पदगुम्फहीनाः
 

सूक्तामृतानुकरणे कथमुत्सहन्ते ॥ १७ ॥
 
Digitized by Google