2023-02-23 21:27:19 by ambuda-bot
This page has not been fully proofread.
९ स्तोत्रम्]
स्तुतिकुसुमाञ्जलिः ।
१२५
समाप्तं संपादितं कृत्यं संसारोत्तरणोपायरूपं यैस्तान् अशरणान् शरणरहितान् । अर्था
दस्मान् अवश्यं निश्चितमविशङ्कमकस्मादेत्यागत्य धीवरः कैवर्त इव तिमीन्मत्स्यान्मृ
त्युईठेन क्षणायावत्र हरते है स्वामिन्निन्दुधर चन्द्रमौले, प्रसीद प्रसन्नो भव नोऽस्माकं
करुणां कृपां कुरु । तथा अमन्दं महान्तमाक्रन्दं विलापं मर्षय शृणु। मां मा विहासीः
मा त्याक्षीः । दधाति मत्स्यानिति धीवरः । 'धीवरपीवर-' इत्यादिना ष्वरच् । कैवर्ते
दाशधीवरौ' इत्यमरः । पुनरपि दीनमाकन्दं करोति – हे स्वामिन्, त्वमेव ब्रूहि वद
कृपासमुद्रेण त्वया त्यक्ताः कमपरं शरणं व्रजामः ॥ युग्मम् ॥
जातस्य मृत्युरिति चेत्स न लतः किं
श्वेतेन शीतकरशेखर नन्दिना च ।
ताभ्यामसौ यदि जितो विपुलैस्तपोभि-
रस्माकमल्पतपसां त्वनिवार्य एव ॥ ५५ ॥
तर्ह्यर्चनान्तसमये तव पादपीठ-
मालिङ्ग्य निर्भरमभङ्गुरभक्तिभाजः ।
निद्रानिभेन विनिमीलितलोचनस्य
प्राणाः प्रयान्तु मम नाथ तव प्रसादात् ॥ ५६ ॥ (युग्मम्)
हे शीतकरशेखर चन्द्रमौले, 'जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । तस्मा-
दपरिहार्येऽर्थे नानुशोचितुमईसि ॥ इति पुराणोक्तेर्जातस्योत्पन्नस्य जन्तोर्मृत्युरिति चे-
द्वदन्ति सन्तस्तर्हि श्वेतेन श्वेताख्यनृपतिना नन्दिना च शैलादिना गणवरेण स मृत्युः
किं न लवितो नोत्तीर्णः किम् । ताभ्यां श्वेतनन्दिभ्यामसौ मृत्युर्विपुलैविस्तीर्णैस्तपो-
भिः कृच्छ्रचान्द्रायणव्रतविशेषैर्यदि जितः । तु पक्षान्तरे । अल्पतपसामस्माकं कर्तॄणा-
मसौ मृत्युस्तह्णनिवार्य एव । 'तव्यानीय काराणां षष्ठी कर्मणि वा स्मृता ॥' इति
कर्तरि षष्ठी ॥
पुनरपि श्रीशिवभक्त्युत्कर्षेण निजमात्मानं समर्थयति-तहति । यदि मृत्युर्दुनिवारस्त
हि हे नाथ मृत्युंजय, अर्चनान्तसमयेऽभङ्गुरभक्तिभाजो गाढतरभक्तियुतस्य तवैव पादपीठं
निर्भरं दृढमालिङ्गय निद्राव्याजेन विशेषेण निमीलिते लोचने येन स तादृशस्य मम भ
वत्प्रसादेन प्राणाः प्रयान्तु निर्गच्छन्तु ॥
एते न किं निबिडबन्धभृतो भुजंगाः
किं वा न वक्रिमविलासविकासभाजः ।
किं तु क्रमादपचिताः पदगुम्फहीनाः
सूक्तामृतानुकरणे कथमुत्सहन्ते ॥ १७ ॥
Digitized by Google