This page has not been fully proofread.


 
सर्वक्ष्मापतिमौलिहारितनवप्राज्यस्वराज्यः परं
तत्त्वातत्त्वविचारकारिधिषणो गाम्भीर्यशौर्यान्वितः ।
 
कश्मीराधिपतिः कृपाजलनिधिविख्यातकीर्तिश्चिरं
जीयाद्भैदरशाहसूनुरनघः कंदर्पदर्पापहः ॥' इति ॥
 
अत्र यदा गुर्जरदेशं महम्मदशाहः कश्मीरं च हस्सन: शशास तदा राजानकशिति-
कष्ठ आसीत् तत्र गुर्जराधिपतेर्महम्मदशाहस्य राज्यकाल: १४५८ मितं ख्रिस्ताब्दमारभ्य
१५११ ख्रिस्ताब्दपर्यन्तमासीदिति रासमालाया ज्ञायते. हस्सनस्य कश्मीरेषु राज्यकालः
१४७२ मितस्त्रिस्ताब्दमारभ्य १४८४ मितख्रिस्ताब्दपर्यन्तमासीदिति श्रीवरराजतरङ्गिणीतो
ज्ञायते. अयमेव शितिकण्ठस्य ग्रन्थनिर्माणसमयः स च शितिकण्ठो जगद्धरभहस्य नष्ट -
कन्यातनयातनूज आसीदिति जगद्धरात्षष्ठः पुरुषः प्रतिपुरुषं विंशतिवर्षगणनाक्रमेण
१३५२ मितख्रिस्ताब्दासनकाले जगद्धरभट्ट आसीदिति निश्चीयते.
 
स्तुतिकुसुमाञ्जलिं बालबोधिनीं चापहाय नान्यः कोऽपि ग्रन्थो जगद्धरप्रणीतः प्राप्यते.
वासवदत्ता - वेणीसंहार-मालतीमाधवानां टीकाकारो जगद्धरस्त्वस्माद्भिन्न इति तत्तद्वन्थसमा-
प्तिस्थप्रशस्तिपर्यालोचनया प्रतीयते.
 
स्तुतिकुसुमाञ्जलिटीकाकारो राजानकरत्नकण्ठस्तु कश्मीरेषु औरङ्गजेबराज्यसमय
आसीदिति टीकायां सुव्यक्तमेव काव्यप्रकाशटीकासारसमुच्चय- चित्रभानुशतक-युधिष्ठिर-
विजयटीकाद्याः कतिपये ग्रन्था रत्नकण्ठप्रणीता अपि प्राप्यन्ते.
 
एतन्मुद्रणोपक्रमे चैकं शुद्धं सटीकं नवीनं २४८ पत्रात्मकं पुस्तकं कश्मीरमहाराजा-
श्रितैरस्मत्सुहृत्तमैः श्रीज्योतिर्विद्विश्वेश्वरशर्मभिः प्रहितम् अपरं मूलमात्रं शुद्धं प्राचीनं
जयपुर एव राजगुरुभट्टलक्ष्मीदत्तसूनुभश्रीदत्तसंग्रहादुपलब्धम् एतत्पुस्तकद्वयाधारेण
विहितमस्य ग्रन्थरत्नस्य मुद्रणं काव्यतत्त्वमार्मिकाणां सहृदयानां निर्मत्सराणि मनांसि मोद-
यत्विति शिवम्.
 
१. इस्सनः.
 
Digitized by Google