This page has been fully proofread once and needs a second look.

१२४
 
काव्यमाला ।
 
वन्दामहे च विविधं विवदामहे च

लज्जामहे च कलुषाणि भजामहे च ।

ईहामहे च कुवचांसि सहामहे च

दह्यामहे च दुरितैर्जठरस्य हेतोः ॥ ११ ॥
 

 
वन्दामह इति । कुनृपतीनित्यर्थात् । वयं कुनृपतीन्वन्दामहे । अत्रापि जठरस्य हेतो-

रिति संबन्धः । तथा विविधं नानाविधं विवदामहे च विवादं कुर्महे च । वादिभिः स-

हेति शेषः । जठरस्य हेतोः । तथा क्वापि लज्जामहे । तथा वयं कलुषाणि मलिनानि

वस्तूनि पापानि वा भजामहे सेवामहे च । तथा ईहामहे च चेष्टां शुभाशुभां कुर्मः ।

तथा वयं कुवचांसि खलानामिति शेषः । सहामहे च । तथा वयं दुरितैः कुकर्मोपा-
जिं

र्जि
तैः पापैरन्तर्दह्यामहे च । जठरस्य हेतोरुदरपूरणार्थम् ॥

 
लब्धं चिरेण सुकृतैरचिरस्थिरं च

मानुष्यकं पुनरिदं सुलभं न चेति ।

जानीम एव च न च स्वहितं विधातु-

मीहामहे वयमहो बत यद्भविष्याः ॥ ५२ ॥
 

 
चिरेणानेकजन्मार्जितसुकृतैः पुण्यैर्लब्धमचिरस्थिरं स्वल्पकालस्थायि इदं मानुष्यकं

मनुष्यत्वं मनुष्यजन्म पुनः सुलभं नास्तीति वयं जानीम एव । चशब्दोऽवधारणे ।

तथापि स्वहितं दुस्तरभवार्णवोत्तरणोपायं विधातुं कर्तुं न चेहामहे काङ्क्षामहे । अहो ।

बत आश्चर्ये । 'खेदानुकम्पासंतोषनिश्चयामन्त्रणे बत' इत्यमरः । अत्याश्चर्यमित्यर्थः ।

वयं यद्भविष्या दैवपरा भवामः । 'यद्भविष्यो दैवपरः' इति क्षीरस्वामी ॥
 

 
तस्मादवश्यमवशानविशङ्कमेव

भोगोपभोगरसिकानसमाप्तकृत्यान् ।

यावन्न धीवर इवैत्य तिमीनकस्मा-

न्मृत्युः क्षणादशरणान्हरते हठेन ॥ १३ ॥

 
तावत्प्रसीद कुरु नः करुणाममन्द-

माक्रन्दमिन्दुधर मर्षय मा विहासीः ।

ब्रूहि त्वमेव भगवन्करुणार्णवेन
 

त्यक्तास्त्वया कमपरं शरणं व्रजामः ॥ ५४ ॥ (युग्मम्)
 

 
तस्मादिति युग्मम् । तस्मात्पूर्वोक्ताद्धेतोरवशानस्वतन्त्रान् भोगोपभोगे रसिकानू न
 
Digitized by Google
 
न् न