2023-10-11 07:08:11 by jayusudindra
This page has been fully proofread once and needs a second look.
१२३
९ स्तोत्रम्]
-
तु पक्षान्तरे । एतद्द्
यमित्यर्थः । एतत्किमित्याह - शब्दार्थेति । शब्दस्त्रिविधः - वाचकलाक्षणिकव्यञ्जकभे-
दभिन्नः । अर्थोऽपि त्रिविधः-वाच्यलक्ष्यव्यङ्गथरूपः । तयोर्यः पाकः प्रौढिस्तेन रम्या
कविराजगीर्महाकविवाणी वा । गीर्वाणसिन्धुधरो गङ्गाघर: श्रीशिवस्तस्य भक्तिरभङ्गुरा-
नश्वरा वा । द्वौ वाशब्दौ द्वयोरपि प्राधान्याभिधायकौ । महाकविवाणी श्रीशिवभक्ति-
श्
ज्योत्स्नाछटाभिरिव देव चकोरकस्य
भास्वत्प्रभाभिरिव पङ्कजकोरकस्य ।
दैवीभिरद्भिरिव बर्हिकिशोरकस्य
प्रीतिर्न ते नुतिकथाभिरघोर कस्य ॥ ४९ ॥
हे अघोर घोरो जन्मजरामरणत्रासदः । न घोरोऽघोर: शिवप्रदः कल्याणदायी तस्य
संबोधनं हे अघोर, देव दीव्यति क्रीडति क्रीडनकैरिव ब्रह्मादिभिर्देवस्तस्य संबोधनं हे
देव अघोर, चकति चन्द्रामृतपायित्वाद्विषं प्रतिहन्ति । 'चक तृप्तौ प्रतिघाते च' ।
'चकिकठिभ्यामोरन्' । चकोर: । कनि चकोरकः । 'चकति तृप्यते ज्योत्स्नया इति
चकोरः । कनि चकोरकः' इति स्वामी । एष स्वनामप्रसिद्धो ज्योत्स्नापायी पक्षिविशेषः ।
तस्य चकोरकस्य यथा ज्योत्स्नाछटाभिश्चन्द्रिकालहरीभिः प्रीतिर्भवति । यथा च भास्व-
त्प्रमा
त्प्रभाभिः सूर्यप्रभाभिः पङ्कजकोरकस्य पद्ममुकुलस्य प्रीतिः । यथा च बर्हिकिशोरकस्य
मयूरपोतकस्य दैवीभिः देवस्य मेघस्येमा दैव्यस्ताभिरद्भिर्मेघजलैः प्रीतिः । 'देवः सुरे
•
घने रा
थाभिः कस्य न प्
वृत्तं क्व ते सकलवा
चेतः स्खलद्गति भवावरणात्क्
वित्रासवन्तमिति मामनुदत्पवित्रा
भक्तिः स्तुतिस्तव कृतेयमतः सुभक्तिः ॥ ५० ॥
हे विभो, वाङ्मनसातिवृत्तं वाक्च मनश्च ते वाङ्मनसी ते अतिवृत्तमतिक्रान्तं ते तव
वृत्तं चरितं क्व भवति । तथा इतो भवावरणात् भवे जन्मन्यावरणमाच्छादकमज्ञानरूपं
तस्मात् स्खलन्ती गतिर्यस्य तच्चेतो मनः अर्थान्मम क्व भवति । इत्यतो हेतोर्विशेषेण
त्रासवन्तं मां पवित्रा तव भक्तिरनुदत् । 'णुद प्रेरणे' । प्रेरयामास । अतो हेतोर्मया तव
स्वामिनः स्तुतिः कृता । किंभूता स्तुतिः । सुभक्तिः शोभना भक्तिर्विच्छित्तिर्यस्याः ॥
Digitized by Google